श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
गुणभेदेन क्रियाणां कारकाणां त्रिविधो भेदः उक्तःअथ इदानीं फलस्य सुखस्य त्रिविधो भेदः उच्यते
गुणभेदेन क्रियाणां कारकाणां त्रिविधो भेदः उक्तःअथ इदानीं फलस्य सुखस्य त्रिविधो भेदः उच्यते

वृत्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह -

गुणेत्यादिना ।

क्रियाकारकाणां गुणतः त्रैविध्योक्त्यनन्तरं फलस्य सुखस्य त्रैविध्योक्त्यवसरे सति, इति आह -

इदानीमिति ।

हेयोपादेयभेदार्थं त्रैविध्यम् । समाधानं - ऐकाग्र्यं मम वचनात् इति शेषः । यत्र इति उभयत्र सम्बध्यते । तत् त्रिविधं सुखमिति पूर्वेण सम्बन्धः

॥ ३६ ॥