श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ३७ ॥
यत् तत् सुखम् अग्रे पूर्वं प्रथमसंनिपाते ज्ञानवैराग्यध्यानसमाध्यारम्भे अत्यन्तायासपूर्वकत्वात् विषमिव दुःखात्मकं भवति, परिणामे ज्ञानवैराग्यादिपरिपाकजं सुखम् अमृतोपमम् , तत् सुखं सात्त्विकं प्रोक्तं विद्वद्भिः, आत्मनः बुद्धिः आत्मबुद्धिः, आत्मबुद्धेः प्रसादः नैर्मल्यं सलिलस्य इव स्वच्छता, ततः जातं आत्मबुद्धिप्रसादजम्आत्मविषया वा आत्मावलम्बना वा बुद्धिः आत्मबुद्धिः, तत्प्रसादप्रकर्षाद्वा जातमित्येतत्तस्मात् सात्त्विकं तत् ॥ ३७ ॥

तत्र सात्त्विकं सुखम् आदेयत्वेन दर्शयति -

यत्तदिति ।

प्रथमसन्निपातं विभजते -

ज्ञानेति ।

कुतः तस्य दुःखात्मकत्वम् ? तत्र आह -

अत्यन्तेति ।

दुःखात्मकत्वे दृष्टान्तम् आह -

विषमिवेति ।

ज्ञानादिपरिपाकावस्था परिणामः, तस्मिन् सति ततो जातम् इति योजना ।

तत्रैव हेत्वन्तरम् आह -

आत्मन इति ।

आत्मबुद्धिशब्दस्य अर्थान्तरम् आह -

आत्मविषयेति ।

अन्तःकरणनैर्मल्याद्वा सम्यग्ज्ञानप्रकर्षाद्वा जातत्वात् इति तच्छब्दार्थः

॥ ३७ ॥