तत्र सात्त्विकं सुखम् आदेयत्वेन दर्शयति -
यत्तदिति ।
प्रथमसन्निपातं विभजते -
ज्ञानेति ।
कुतः तस्य दुःखात्मकत्वम् ? तत्र आह -
अत्यन्तेति ।
दुःखात्मकत्वे दृष्टान्तम् आह -
विषमिवेति ।
ज्ञानादिपरिपाकावस्था परिणामः, तस्मिन् सति ततो जातम् इति योजना ।
तत्रैव हेत्वन्तरम् आह -
आत्मन इति ।
आत्मबुद्धिशब्दस्य अर्थान्तरम् आह -
आत्मविषयेति ।
अन्तःकरणनैर्मल्याद्वा सम्यग्ज्ञानप्रकर्षाद्वा जातत्वात् इति तच्छब्दार्थः
॥ ३७ ॥