श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ॥
विषयेन्द्रियसंयोगात् जायते यत् सुखम् तत् सुखम् अग्रे प्रथमक्षणे अमृतोपमम् अमृतसमम् , परिणामे विषमिव, बलवीर्यरूपप्रज्ञामेधाधनोत्साहहानिहेतुत्वात् अधर्मतज्जनितनरकादिहेतुत्वाच्च परिणामे तदुपभोगपरिणामान्ते विषमिव, तत् सुखं राजसं स्मृतम् ॥ ३८ ॥

राजसं सुखं हेयत्वाय कथयति -

विषयेति ।

बलं - सङ्घातसामर्थ्यं, वीर्यं - पराक्रमकृतं यशः, रूपं - शरीरसौन्दर्यं, प्रज्ञा - श्रुतार्थग्रहणसामर्थ्यं, मेधा - गृहीतार्थस्य अविस्मरणेन घारणशक्तिः, धनं - गोहिरण्यादि, उत्साहस्तु - कार्यं प्रति उपक्रमादिः, एतेषां नाशकत्वात् वैषयिकं सुखं विषसमम् इति अर्थः ।

तत्रैव हेत्वन्तरम् आह -

अधर्मेति

॥ ३८ ॥