श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदग्रे चानुबन्धे सुखं मोहनमात्मनः
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥
यत् अग्रे अनुबन्धे अवसानोत्तरकाले सुखं मोहनं मोहकरम् आत्मनः निद्रालस्यप्रमादोत्थं निद्रा आलस्यं प्रमादश्च तेभ्यः समुत्तिष्ठतीति निद्रालस्यप्रमादोत्थम् , तत् तामसम् उदाहृतम् ॥ ३९ ॥

तामसं सुखं त्यागार्थमेव उदाहरति -

यदग्रे चेति ।

अनुबन्धशब्दार्थम् आह -

अवसानेति ।

मोहनं - मोहकरम् ।

तदुत्पत्तिहेतुम् आह -

निद्रेति

॥ ३९ ॥