सम्प्रति वर्णचतुष्टयस्य अनुष्ठेयं धर्मजातम् असङ्कीर्णम् इति सूत्रम् उपन्यस्यति-
ब्राह्मणेति ।
उपनयनसंस्कारवत्त्वे सति वेदाधिकारित्वं समानम् इति त्रयाणां समासकरणम् ।
इतरेषाम् असमासे हेतुम् आह -
शूद्राणाम् इति ।
एकजातित्वम् उपनयनवर्जितत्वम् ।
कर्मणाम् असङ्कीर्णत्वेन व्यवस्थापकं प्रश्नपूर्वकं प्रकटयति -
केन इत्यादिना ।
स्वभावप्रभवैः गुणैः इत्यस्य अर्थान्तरम् आह -
अथवेति ।
उक्तव्यवस्थायां कार्यदर्शनं प्रमाणयति -
प्रशान्तीति ।
स्वभावशब्दस्य अर्थान्तरम् आह -
अथवेति ।
किमिति गुणाभिव्यक्तेः उक्तवासनाधीनत्वम् ? तत्र आह -
गुणेति ।
ननु ऩास्ति गुणप्रादुर्भावस्य निष्कारणत्वं, प्रकृतिजैः गुणैः इति प्रकृतेः गुणकारणत्वाभिधानात् , अतः आह -
स्वभाव इति ।
वासना कारणम् इति गुणव्यक्तेः निमित्तकारणत्वं विवक्षितम् । प्रकृतिस्तु उपादान इति भावः ।
उक्तम् उपसंहरति -
एवमिति ।