श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्राह्मणक्षत्रियविशां शूद्राणां परन्तप
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥
ब्राह्मणाश्च क्षत्रियाश्च विशश्च ब्राह्मणक्षत्रियविशः, तेषां ब्राह्मणक्षत्रियविशां शूद्राणां शूद्राणाम् असमासकरणम् एकजातित्वे सति वेदानधिकारात्हे परन्तप, कर्माणि प्रविभक्तानि इतरेतरविभागेन व्यवस्थापितानिकेन ? स्वभावप्रभवैः गुणैः, स्वभावः ईश्वरस्य प्रकृतिः त्रिगुणात्मिका माया सा प्रभवः येषां गुणानां ते स्वभावप्रभवाः, तैः, शमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनाम्अथवा ब्राह्मणस्वभावस्य सत्त्वगुणः प्रभवः कारणम् , तथा क्षत्रियस्वभावस्य सत्त्वोपसर्जनं रजः प्रभवः, वैश्यस्वभावस्य तमउपसर्जनं रजः प्रभवः, शूद्रस्वभावस्य रजउपसर्जनं तमः प्रभवः, प्रशान्त्यैश्वर्येहामूढतास्वभावदर्शनात् चतुर्णाम्अथवा, जन्मान्तरकृतसंस्कारः प्राणिनां वर्तमानजन्मनि स्वकार्याभिमुखत्वेन अभिव्यक्तः स्वभावः, सः प्रभवो येषां गुणानां ते स्वभावप्रभवाः गुणाः ; गुणप्रादुर्भावस्य निष्कारणत्वानुपपत्तेः । ‘स्वभावः कारणम्इति कारणविशेषोपादानम्एवं स्वभावप्रभवैः प्रकृतिभवैः सत्त्वरजस्तमोभिः गुणैः स्वकार्यानुरूपेण शमादीनि कर्माणि प्रविभक्तानि

सम्प्रति वर्णचतुष्टयस्य अनुष्ठेयं धर्मजातम् असङ्कीर्णम् इति सूत्रम् उपन्यस्यति-

ब्राह्मणेति ।

उपनयनसंस्कारवत्त्वे सति वेदाधिकारित्वं समानम् इति त्रयाणां समासकरणम् ।

इतरेषाम् असमासे हेतुम् आह -

शूद्राणाम् इति ।

एकजातित्वम् उपनयनवर्जितत्वम् ।

कर्मणाम् असङ्कीर्णत्वेन व्यवस्थापकं प्रश्नपूर्वकं प्रकटयति -

केन इत्यादिना ।

स्वभावप्रभवैः गुणैः इत्यस्य अर्थान्तरम् आह -

अथवेति ।

उक्तव्यवस्थायां कार्यदर्शनं प्रमाणयति -

प्रशान्तीति ।

स्वभावशब्दस्य अर्थान्तरम् आह -

अथवेति ।

किमिति गुणाभिव्यक्तेः उक्तवासनाधीनत्वम् ? तत्र आह -

गुणेति ।

ननु ऩास्ति गुणप्रादुर्भावस्य निष्कारणत्वं, प्रकृतिजैः गुणैः इति प्रकृतेः गुणकारणत्वाभिधानात् , अतः आह -

स्वभाव इति ।

वासना कारणम् इति गुणव्यक्तेः निमित्तकारणत्वं विवक्षितम् । प्रकृतिस्तु उपादान इति भावः ।

उक्तम् उपसंहरति -

एवमिति ।