स्वभावप्रभवैः सत्त्वादिगुणैः ब्राह्मणादीनां कर्माणि प्रविभक्तानि इति उक्तम् आक्षिपति-
नन्विति ।
शास्त्रस्य धर्मविभागहेतोः सत्त्वादिविशेषापेक्षयैव विभागज्ञापकत्वात् उभयत्र विभागहेतुत्वोक्तिः अविरुद्धा इति परिहरति -
नैष दोष इति
॥ ४१ ॥