मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
अष्टादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
कृषिगौरक्ष्यवाणिज्यं
वैश्यकर्म
स्वभावजम्
।
परिचर्यात्मकं
कर्म
शूद्रस्यापि
स्वभावजम्
॥ ४४ ॥
कृषिगौरक्ष्यवाणिज्यं कृषिश्च गौरक्ष्यं च वाणिज्यं च कृषिगौरक्ष्यवाणिज्यम् , कृषिः भूमेः विलेखनम् , गौरक्ष्यं गाः रक्षतीति गोरक्षः तस्य भावः गौरक्ष्यम् , पाशुपाल्यम् इत्यर्थः, वाणिज्यं वणिक्कर्म क्रयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म स्वभावजम् । परिचर्यात्मकं शुश्रूषास्वभावं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
कृषीति
;
वैश्यशूद्रयोः कर्म विवक्षया अनुवदति -
कृषीति ।
स्पष्टार्थः
॥ ४४ ॥