श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥
कृषिगौरक्ष्यवाणिज्यं कृषिश्च गौरक्ष्यं वाणिज्यं कृषिगौरक्ष्यवाणिज्यम् , कृषिः भूमेः विलेखनम् , गौरक्ष्यं गाः रक्षतीति गोरक्षः तस्य भावः गौरक्ष्यम् , पाशुपाल्यम् इत्यर्थः, वाणिज्यं वणिक्कर्म क्रयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म स्वभावजम्परिचर्यात्मकं शुश्रूषास्वभावं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥

वैश्यशूद्रयोः कर्म विवक्षया अनुवदति -

कृषीति ।

स्पष्टार्थः

॥ ४४ ॥