ननु युद्धादिलक्षणं स्वधर्मं कुर्वन्नपि हिंसाधीनं पापं प्राप्नोति तत् कथं स्वधर्मः श्रेयान् इति ? तत्र आह -
स्वभावेति ।
स्वकीयं वर्णाश्रमं निमित्तीकृत्य विहितं स्वभावजम् इति अधस्तात् उक्तम् इत्याह -
यदुक्तमिति ।
विग्रहात्मकमपि विहितं कर्म कुर्वन् पापं न आप्नोति इति अत्र दृष्टान्तम् आह -
यथेति
॥ ४७ ॥