श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
किम् अशेषतः त्यक्तुम् अशक्यं कर्म इति न त्यजेत् ? किं वा सहजस्य कर्मणः त्यागे दोषो भवतीति ? किं च अतः ? यदि तावत् अशेषतः त्यक्तुम् अशक्यम् इति न त्याज्यं सहजं कर्म, एवं तर्हि अशेषतः त्यागे गुण एव स्यादिति सिद्धं भवति । सत्यम् एवम् ; अशेषतः त्याग एव न उपपद्यते इति चेत् , किं नित्यप्रचलितात्मकः पुरुषः, यथा साङ्ख्यानां गुणाः ? किं वा क्रियैव कारकम् , यथा बौद्धानां स्कन्धाः क्षणप्रध्वंसिनः ? उभयथापि कर्मणः अशेषतः त्यागः न सम्भवति । अथ तृतीयोऽपि पक्षः — यदा करोति तदा सक्रियं वस्तु । यदा न करोति, तदा निष्क्रियं तदेव । तत्र एवं सति शक्यं कर्म अशेषतः त्यक्तुम् । अयं तु अस्मिन् तृतीये पक्षे विशेषः — न नित्यप्रचलितं वस्तु, नापि क्रियैव कारकम् । किं तर्हि ? व्यवस्थिते द्रव्ये अविद्यमाना क्रिया उत्पद्यते, विद्यमाना च विनश्यति । शुद्धं तत् द्रव्यं शक्तिमत् अवतिष्ठते । इति एवम् आहुः काणादाः । तदेव च कारकम् इति । अस्मिन् पक्षे को दोषः इति । अयमेव तु दोषः — यतस्तु अभागवतं मतम् इदम् । कथं ज्ञायते ? यतः आह भगवान् ‘नासतो विद्यते भावः’ (भ. गी. २ । १६) इत्यादि । काणादानां हि असतः भावः, सतश्च अभावः, इति इदं मतम् अभागवतम् । अभागवतमपि न्यायवच्चेत् को दोषः इति चेत् , उच्यते — दोषवत्तु इदम् , सर्वप्रमाणविरोधात् । कथम् ? यदि तावत् द्व्यणुकादि द्रव्यं प्राक् उत्पत्तेः अत्यन्तमेव असत् , उत्पन्नं च स्थितं कञ्चित् कालं पुनः अत्यन्तमेव असत्त्वम् आपद्यते, तथा च सति असदेव सत् जायते, सदेव असत्त्वम् आपद्यते, अभावः भावो भवति, भावश्च अभावो भवति ; तत्र अभावः जायमानः प्राक् उत्पत्तेः शशविषाणकल्पः समवाय्यसमवायिनिमित्ताख्यं कारणम् अपेक्ष्य जायते इति । न च एवम् अभावः उत्पद्यते, कारणं च अपेक्षते इति शक्यं वक्तुम् , असतां शशविषाणादीनाम् अदर्शनात् । भावात्मकाश्चेत् घटादयः उत्पद्यमानाः, किञ्चित् अभिव्यक्तिमात्रे कारणम् अपेक्ष्य उत्पद्यन्ते इति शक्यं प्रतिपत्तुम् । किञ्च, असतश्च सतश्च सद्भावे असद्भावे न क्वचित् प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्यचित् स्यात् , ‘सत् सदेव असत् असदेव’ इति निश्चयानुपपत्तेः ॥

सहजं कर्म सदोषमपि न त्यजेत् इत्यत्र विचारम् अवतारयति -

किमिति ।

न हि कश्चिदिति न्यायात् इति शेषः । दोषः - विहितनित्यत्यागे प्रत्यवायः ।

सन्दिग्धस्य सप्रयोजनस्य विचार्यत्वात् , उक्ते सन्देहे प्रयोजनं पृच्छति -

किं चात इति ।

तत्र आद्यम् अऩूद्य फलं दर्शयति -

यदीति ।

अशक्यार्थानुष्ठानस्य गुणत्वेन प्रसिद्धत्वात् । प्रसिद्धं हि महोदधिम् अगस्त्यस्य चुलुकीकृत्य पिबतो गुणवत्त्वम् । तदाह -

एवं तर्हि इति ।

अशेषकर्मत्यागस्य गुणवत्त्वेऽपि प्रागुक्तन्यायेन तदयोगात् तस्य अशक्यानुष्ठानता इति शङ्कते -

सत्यमिति ।

चोद्यमेव विवृण्वन् आद्यं विभजते -

किमिति ।

सत्त्वादिगुणवत् आत्मनः नित्यप्रचलितत्वेन अशेषतः तेन न कर्म त्यक्तुं शक्यम् ; नापि रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञानां क्षणध्वंसिनां स्कन्धानाम् इव क्रियाकारकभेदाभावात् कारकस्यैव आत्मनः क्रियात्वम् इत्युक्ते कर्म अशेषतः त्यक्तुं शक्यम् , उभयत्रापि स्वभावभङ्गात् इत्याह -

उभयथेति ।

पक्षद्वयानुरोधेन अशेषकर्मत्यागायोगे, वैशेषिकः चोदयति -

अथेति ।

कदाचित् आत्मा सक्रियः, निष्क्रियश्च कदाचित् , इति स्थिते फलितम् आह -

तत्रेति ।

उक्तमेव पक्षं पूर्वोक्तपक्षद्वयात् विशेषदर्शनेन विशदयति -

अयं त्विति ।

आगमापायित्वे क्रियायाः, तद्वतः द्रव्यस्य कथं स्थायिता ? इति अशङ्क्य, आह -

शुद्धमिति ।

क्रियाशक्तिमत्त्वेऽपि क्रियावत्त्वाभावे कथं कारकत्वम् ? क्रियां कुर्वत् कारणं कारकम् इति अभ्युपगभात् इति आशङ्क्य, आह -

तदेवेति ।

क्रियाशक्तिमदेव कारकं न क्रियाधिकरणं, परस्पराश्रयात् इत्यर्थः ।

वैशेषिकपक्षे दोषाभावात् अस्ति सर्वैः स्वीकार्यता इति उपसंहरति -

इत्यस्मिन्निति ।

भगवन्मतानुसारित्वाभावात् अस्य पक्षस्य त्याज्यता इति दूषयति-

अयमेवेति ।

भगवन्मताननुसारित्वम् अस्य अप्रामाणकम् इति शङ्कते-

कथमिति ।

भगवद्वचनम् उदाहरन् परपक्षस्य तदनुगुणत्वाभावम् आह -

यत इति ।

परेषामपि मतम् एतदनुगुणमेव किं न स्यात् इति आशङ्क्य, आह -

काणादानां हीति ।

भगवन्मतानुगुणत्वाभावेऽपि न्यायानुगुणत्वेन दोषरहितं काणादानां मतम् उपादेयमेव तर्हि काणादमतविरोधात् उपेक्ष्यते भगवन्मतम् इति शङ्कते -

अभागवतत्वेऽपि इति ।

न्यायवत्त्वम् असिद्धम् इति दूषयति -

उच्यत इति ।

सर्वप्रमाणानुसारिणः मतस्य न तद्विरोधिता इति आक्षिपति -

कथमिति ।

वैशेषिकमतस्य सर्वप्रमाणविरोधं प्रकटयन् आदौ तन्मतम् अनुवदति-

यदीति ।

असतः जन्म, सतश्च नाशः इति स्थिते फलितम् आह -

तथा चेति ।

उक्तमेव वाक्यं व्याकरोति -

अभाव इति ।

सदेव असत्त्वम् आपद्यते इत्युक्तं व्याचष्टे -

भावश्चेति ।

इति मतमिति शेषः ।

तत्रैव अभ्युगमान्तरम् आह -

तत्रेति ।

प्रकृतं मतं सप्तम्यर्थः । इति अभ्युपगम्यते इति शेषः ।

परकीयम् अभ्युपगमं दूषयति -

न चेति ।

एवमिति - परपरिभाषानुसारेण इत्यर्थः । अदर्शनात् - उत्पत्तेः अपेक्षायाश्च इति शेषः ।

कथं तर्हि त्वन्मतेऽपि घटादीनां कारणापेक्षाणाम् उत्पत्तिः, न हि भावानां कारणापेक्षा उत्पत्तिर्वा युक्ता, इति तत्राह -

भावेति ।

धटादीनाम् अस्मत्पक्षे प्रागपि कारणात्मना सतामेव अव्यक्तनामरूपाणाम् अभिव्यक्तिसामग्रीम् अपेक्ष्य पृथक् अभिव्यक्तिसम्भवात् न किञ्चित् अवद्यम् इत्यर्थः ।

असत्कार्यवादे दोषान्तरम् आह -

किञ्चेति ।

परमते मानमेयव्यवहारे क्वचिदपि विश्वासः न कस्यचित् इत्यत्र हेतुमाह -

सत्सदेवेति ।

न हि सत् तथैव इति निश्चितं, तस्यैव पुनः असत्त्वप्राप्तेः इष्टत्वात् , न च असत् तथैवेति निश्चयः, तस्यैव सत्त्वप्राप्तेः उपगमात् । अतः यत् मानेन सत् असद्वा निर्णीतं तत् तथेति विश्वासाभावात् मानवैफल्यम् इत्यर्थः ।