श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
ननु असतोऽपि समवायलक्षणः सम्बन्धः न विरुद्धः । न ; वन्ध्यापुत्रादीनाम् अदर्शनात् । घटादेरेव प्रागभावस्य स्वकारणसम्बन्धो भवति न वन्ध्यापुत्रादेः, अभावस्य तुल्यत्वेऽपि इति विशेषः अभावस्य वक्तव्यः । एकस्य अभावः, द्वयोः अभावः, सर्वस्य अभावः, प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावः इति लक्षणतो न केनचित् विशेषो दर्शयितुं शक्यः । असति च विशेषे घटस्य प्रागभावः एव कुलालादिभिः घटभावम् आपद्यते सम्बध्यते च भावेन कपालाख्येन, सम्बद्धश्च सर्वव्यवहारयोग्यश्च भवति, न तु घटस्यैव प्रध्वंसाभावः अभावत्वे सत्यपि, इति प्रध्वंसाद्यभावानां न क्वचित् व्यवहारयोग्यत्वम् , प्रागभावस्यैव द्व्यणुकादिद्रव्याख्यस्य उत्पत्त्यादिव्यवहारार्हत्वम् इत्येतत् असमञ्जसम् ; अभावत्वाविशेषात् अत्यन्तप्रध्वंसाभावयोरिव ॥

सम्बन्धिनोः सदसतोरेव असंयोगेऽपि समवायः सदसतोः सम्भवेत् इति, तस्य नित्यत्वात् अन्यतरसम्बन्धाभावेऽपि स्थितेः आवश्यकत्वात् इति शङ्कते -

नन्विति ।

सदसतोः मिथः सम्बन्धस्य अदृष्टत्वात् न इति निराचष्टे -

न वन्ध्येति ।

घटादिप्रागभावस्य अत्यन्ताभावत्वाभावात् वन्ध्यापुत्रादिविलक्षणतया स्वकारणसम्बन्धः सिध्यति इति आशङ्क्य आह -

घटादेरिति ।

उभयत्र अभावस्वभावाविशेषेऽपि, कस्याचित् कारणसम्बन्धः, न इतरस्य, इति विशेषे, हेत्वभावात्  न प्रागभावस्य कारणसम्बन्धः सम्भवति इत्यर्थः ।

घटादिप्रागभावस्य सप्रतियोगिकत्वं, वन्ध्यापुत्रादेः नैवम् इति विशेषम् आशङ्क्य दूषयति-

एकस्येति ।

प्रागभावस्येव प्रध्वंसाभावादेरपि सप्रतियोगिकत्वाविशेषे स्वकारणेन सम्बन्धाविशेषः स्यात् इत्यर्थः ।

प्रागभावप्रध्वंसाभावयोः विशेषाभावे फलितम् आह -

असति चेति ।

कपालशब्दः धटकारणीभूतमृदवयवविषयः । सर्वः व्यवहारः घटाश्रितः जन्मनाशादिव्यवहारः । प्रध्वंसाभावस्तु घटस्यैव अभावत्वे सत्यपि न घटत्वम् आपद्यते । नापि कारणेन संबध्यते ।

न च उत्पत्त्यादिव्यवहारयोग्यः भवति, इति एतत् अयुक्तं, प्रागभावेन अस्य विशेषाभावात् इत्याह -

न त्विति ।

असमञ्जसम् इत्यनेन इतिशब्दः सम्बध्यते ।

असमञ्जसान्तरम् आह -

प्रध्वंसादीति ।

अन्योन्याभावात्यन्ताभावौ अदिपदार्थौ । क्कचित् इति देशकालयोः ग्रहणम् । व्यवहारः जन्मादिरेव । प्रागभावः न उत्पत्त्यादिव्यवहारयोग्यः, अभावत्वात् , प्रध्वंसादिवत् इत्यर्थः ।