श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
ननु असतोऽपि समवायलक्षणः सम्बन्धः विरुद्धः ; वन्ध्यापुत्रादीनाम् अदर्शनात्घटादेरेव प्रागभावस्य स्वकारणसम्बन्धो भवति वन्ध्यापुत्रादेः, अभावस्य तुल्यत्वेऽपि इति विशेषः अभावस्य वक्तव्यःएकस्य अभावः, द्वयोः अभावः, सर्वस्य अभावः, प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावः इति लक्षणतो केनचित् विशेषो दर्शयितुं शक्यःअसति विशेषे घटस्य प्रागभावः एव कुलालादिभिः घटभावम् आपद्यते सम्बध्यते भावेन कपालाख्येन, सम्बद्धश्च सर्वव्यवहारयोग्यश्च भवति, तु घटस्यैव प्रध्वंसाभावः अभावत्वे सत्यपि, इति प्रध्वंसाद्यभावानां क्वचित् व्यवहारयोग्यत्वम् , प्रागभावस्यैव द्व्यणुकादिद्रव्याख्यस्य उत्पत्त्यादिव्यवहारार्हत्वम् इत्येतत् असमञ्जसम् ; अभावत्वाविशेषात् अत्यन्तप्रध्वंसाभावयोरिव

सम्बन्धिनोः सदसतोरेव असंयोगेऽपि समवायः सदसतोः सम्भवेत् इति, तस्य नित्यत्वात् अन्यतरसम्बन्धाभावेऽपि स्थितेः आवश्यकत्वात् इति शङ्कते -

नन्विति ।

सदसतोः मिथः सम्बन्धस्य अदृष्टत्वात् न इति निराचष्टे -

न वन्ध्येति ।

घटादिप्रागभावस्य अत्यन्ताभावत्वाभावात् वन्ध्यापुत्रादिविलक्षणतया स्वकारणसम्बन्धः सिध्यति इति आशङ्क्य आह -

घटादेरिति ।

उभयत्र अभावस्वभावाविशेषेऽपि, कस्याचित् कारणसम्बन्धः, न इतरस्य, इति विशेषे, हेत्वभावात्  न प्रागभावस्य कारणसम्बन्धः सम्भवति इत्यर्थः ।

घटादिप्रागभावस्य सप्रतियोगिकत्वं, वन्ध्यापुत्रादेः नैवम् इति विशेषम् आशङ्क्य दूषयति-

एकस्येति ।

प्रागभावस्येव प्रध्वंसाभावादेरपि सप्रतियोगिकत्वाविशेषे स्वकारणेन सम्बन्धाविशेषः स्यात् इत्यर्थः ।

प्रागभावप्रध्वंसाभावयोः विशेषाभावे फलितम् आह -

असति चेति ।

कपालशब्दः धटकारणीभूतमृदवयवविषयः । सर्वः व्यवहारः घटाश्रितः जन्मनाशादिव्यवहारः । प्रध्वंसाभावस्तु घटस्यैव अभावत्वे सत्यपि न घटत्वम् आपद्यते । नापि कारणेन संबध्यते ।

न च उत्पत्त्यादिव्यवहारयोग्यः भवति, इति एतत् अयुक्तं, प्रागभावेन अस्य विशेषाभावात् इत्याह -

न त्विति ।

असमञ्जसम् इत्यनेन इतिशब्दः सम्बध्यते ।

असमञ्जसान्तरम् आह -

प्रध्वंसादीति ।

अन्योन्याभावात्यन्ताभावौ अदिपदार्थौ । क्कचित् इति देशकालयोः ग्रहणम् । व्यवहारः जन्मादिरेव । प्रागभावः न उत्पत्त्यादिव्यवहारयोग्यः, अभावत्वात् , प्रध्वंसादिवत् इत्यर्थः ।