सम्बन्धिनोः सदसतोरेव असंयोगेऽपि समवायः सदसतोः सम्भवेत् इति, तस्य नित्यत्वात् अन्यतरसम्बन्धाभावेऽपि स्थितेः आवश्यकत्वात् इति शङ्कते -
नन्विति ।
सदसतोः मिथः सम्बन्धस्य अदृष्टत्वात् न इति निराचष्टे -
न वन्ध्येति ।
घटादिप्रागभावस्य अत्यन्ताभावत्वाभावात् वन्ध्यापुत्रादिविलक्षणतया स्वकारणसम्बन्धः सिध्यति इति आशङ्क्य आह -
घटादेरिति ।
उभयत्र अभावस्वभावाविशेषेऽपि, कस्याचित् कारणसम्बन्धः, न इतरस्य, इति विशेषे, हेत्वभावात् न प्रागभावस्य कारणसम्बन्धः सम्भवति इत्यर्थः ।
घटादिप्रागभावस्य सप्रतियोगिकत्वं, वन्ध्यापुत्रादेः नैवम् इति विशेषम् आशङ्क्य दूषयति-
एकस्येति ।
प्रागभावस्येव प्रध्वंसाभावादेरपि सप्रतियोगिकत्वाविशेषे स्वकारणेन सम्बन्धाविशेषः स्यात् इत्यर्थः ।
प्रागभावप्रध्वंसाभावयोः विशेषाभावे फलितम् आह -
असति चेति ।
कपालशब्दः धटकारणीभूतमृदवयवविषयः । सर्वः व्यवहारः घटाश्रितः जन्मनाशादिव्यवहारः । प्रध्वंसाभावस्तु घटस्यैव अभावत्वे सत्यपि न घटत्वम् आपद्यते । नापि कारणेन संबध्यते ।
न च उत्पत्त्यादिव्यवहारयोग्यः भवति, इति एतत् अयुक्तं, प्रागभावेन अस्य विशेषाभावात् इत्याह -
न त्विति ।
असमञ्जसम् इत्यनेन इतिशब्दः सम्बध्यते ।
असमञ्जसान्तरम् आह -
प्रध्वंसादीति ।
अन्योन्याभावात्यन्ताभावौ अदिपदार्थौ । क्कचित् इति देशकालयोः ग्रहणम् । व्यवहारः जन्मादिरेव । प्रागभावः न उत्पत्त्यादिव्यवहारयोग्यः, अभावत्वात् , प्रध्वंसादिवत् इत्यर्थः ।