श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
ननु नैव अस्माभिः प्रागभावस्य भावापत्तिः उच्यतेभावस्यैव तर्हि भावापत्तिः ; यथा घटस्य घटापत्तिः, पटस्य वा पटापत्तिःएतदपि अभावस्य भावापत्तिवदेव प्रमाणविरुद्धम्साङ्ख्यस्यापि यः परिणामपक्षः सोऽपि अपूर्वधर्मोत्पत्तिविनाशाङ्गीकरणात् वैशेषिकपक्षात् विशिष्यतेअभिव्यक्तितिरोभावाङ्गीकरणेऽपि अभिव्यक्तितिरोभावयोः विद्यमानत्वाविद्यमानत्वनिरूपणे पूर्ववदेव प्रमाणविरोधःएतेन कारणस्यैव संस्थानम् उत्पत्त्यादि इत्येतदपि प्रत्युक्तम्

प्रागभावस्य घटभावानभ्युपगमात् अनुमानं सिद्धसाधनम् इति शङ्कते -

नन्विति ।

अभावस्य भावापत्त्यनभ्युपगमे भावस्यैव भावापत्तिः इति अनिष्टं स्यात् इति दूषयति -

भावस्यैवेति ।

तस्य तदापत्तेः अयोग्यत्वे दृष्टान्तम् आह -

यथेति ।

अभावस्य भावापत्तिः अनिष्टा इति दार्ष्टान्तिकं स्पष्टयति -

एतदपीति ।

आरम्भवादोक्तं दोषं परिणामवादेऽपि सञ्चारयति -

साङ्ख्यस्येति ।

धर्मः - परिणामः । असतः अपूर्वपरिणामस्य उत्पत्तेः, सतश्च पूर्वपरिणामस्य नाशात् , असत् असदेव, सच्च सदेव इति व्यवस्था अत्रापि दुर्घटा इत्यर्थः । ननु कार्यं कारणात्मना प्रागपि सदेव अव्यक्तं कारकव्यापारात् व्यज्यते । तेन व्यक्त्यव्यक्त्योः जन्मनाशव्यवहारात् मतान्तरात् विशेषसिद्धिः ।

तत्र आह -

अभिव्यक्तीति ।

कारकव्यापारात् प्राक् अनभिव्यक्तिवत् अभिव्यक्तेः सत्त्वम् असत्त्वं वा ? सत्त्वे कारकव्यापारवैयर्थ्यात् तद्विषयप्रमाणविरोधः । द्वितोये पक्षान्तरवत् अत्यन्तासतः तन्निर्वर्त्यत्वायोगे स एव दोषः । कारकव्यापारात् ऊर्ध्वं व्यक्तिवत् अव्यक्तेरपि सत्त्वे स एव दोषः । असत्त्वेऽपि सतो असत्त्वानङ्गीकारात् मानमेयव्यवहारे न क्कापि विश्वासः । सत् सदेव, असत् असदेव इति अनिर्धारणात् इत्यर्थः ।

साङ्ख्यपक्षप्रतिक्षेपन्यायेन पक्षान्तरमपि प्रतिक्षिप्तम् इत्याह -

एतेनेति ।

कारणस्यैव कार्यरूपापत्तिः उत्पत्तिः । तस्यैव तद्रूपत्यागेन स्वरूपापत्तिः नाशः इति एतदपि न । पूर्वरूपे स्थिते नष्टे च, परस्य पररूपापत्तेः अनुपपत्तेः । न च प्राप्तं रूपं स्थितेन नष्टेन वा त्यक्तुं शक्यम् इत्यर्थः ।