आत्मनश्चेत् अविक्रियत्वं भगवता इष्टं, तर्हि सर्वकर्मपरित्यागोपपत्तेः, सहजस्यापि कर्मणः त्यागसिद्धिः इति शङ्कते -
कथमिति ।
किं कार्यकारणात्मनां गुणानाम् अकल्पितानां कल्पितानां वा कर्म धर्मत्वेन इष्टम् ? द्विधापि निश्शेषकर्मत्यागः विदुषः अविदुषो वा ? न आद्यः इत्याह -
यदीत्यादिना ।
अविद्यारोपितमेव गुणशब्दितकार्यकारणारोपद्वारा कर्म इति शेषः ।
द्वितीयं प्रति आह -
विद्वांस्त्विति ।
आरोपशेषवशात् विदुषोऽपि न अशेषकर्मत्यागसिद्धिः इति आशङ्क्य, आह -
अविद्येति ।
तामेव अनुपपत्तिं दृष्टान्तेन स्पष्टयति -
न हीति ।
विदुषः अशेषकर्मत्यागे पाञ्चमिकमपि वचः अनुकूलम् इत्याह -
एवं चेति ।
अविदुषः सर्वकर्मत्यागायोगे च प्रकृताध्यायस्थमेव वाक्यम् अनुगुणम् इति आह -
स्वे स्वे इति ।
वाक्यान्तरमपि तत्रैव अर्थे युक्तार्थम् इत्याह -
स्वकर्मणेति
॥ ४८ ॥