साधनानि उपदिशन् नैष्कर्म्यसिद्धिं व्यपदिशति -
असक्तेति ।
पुत्रादिविषये चेतसः सङ्गाभावेऽपि तस्य अस्वाधीनत्वम् आशङ्क्य, आह-
जितात्मेति ।
असक्तिम् उक्त्वा स्पृहाभावं वदता पुनरुक्तिः इष्टा इति आशङ्क्य, आह-
देहेति ।
उक्तम् अनूद्यतत्फलं लम्भयति -
य एवमिति ।
कर्मणां निर्गतौ हेतुम् आह - निष्क्रियेति ।
सम्यग्ज्ञानार्थत्वेन नैष्कर्म्यसिद्धिशब्दं व्याख्याय अर्थान्तरम् आह -
नैष्कर्म्यस्येति ।
प्रकर्षमेव प्रकटयति -
कर्मजेति ।
संन्यासस्य श्रुतिस्मृत्योः सम्यग्दर्शनत्वाप्रसिद्धेः अयुक्तं तादात्म्यम् इति आशङ्क्य, पक्षान्तरम् आह -
तत्पूर्वकेणेति ।
संन्यासात् नैष्कर्म्यप्राप्तिः इत्यत्र वाक्योपक्रमानुकूल्यम् आह -
तथा चेति
॥ ४९ ॥