श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
असक्तबुद्धिः सर्वत्र
जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धिं परमां
संन्यासेनाधिगच्छति ॥ ४९ ॥
या कर्मजा सिद्धिः उक्ता ज्ञाननिष्ठायोग्यतालक्षणा, तस्याः फलभूता नैष्कर्म्यसिद्धिः ज्ञाननिष्ठालक्षणा च वक्तव्येति श्लोकः आरभ्यते —

विदुषः सर्वकर्मत्यागेऽपि, न अविदुषः तथा, इति, उक्तम् । इदानीम् उक्तम् अनूद्य अनन्तरश्लोकतात्पर्यम् आह -

या च कर्मजेति ।

चः अवधारणार्थः भिन्नक्रमः, वक्तव्यः इत्यत्र सम्बध्यते ।