सिद्धिम्प्राप्तः इति उक्तमेव कस्मात् अनूद्यते ? तत्र आह -
तदनुवाद इति ।
उत्तरमेव प्रश्नपूर्वकं स्फोरयति -
किं तदित्यादिना ।
ज्ञाननिष्ठाप्राप्तिक्रमस्य विस्तरेण उक्तौ दुर्बोधत्वम् आशङ्क्य परिहरति -
किमिति ।
चतुर्थपादस्य पूर्वेण असङ्गतिम् आशङ्क्य, आह -
यथेति ।
निष्ठायाः सापेक्षत्वात् प्रतिसम्बन्धि प्रतिनिर्देष्टव्यम् इत्याह -
कस्येति ।
या ब्रह्मज्ञानस्य परा निष्ठा, सा प्रकृतस्य ज्ञानस्य निष्ठा इत्याह -
ब्रह्मेति ।
तस्य परा निष्ठा न प्रसिद्धा इति कृत्वा साधनानुष्ठानाधीनतया साध्या इति मत्वा पृच्छति -
कीदृशीति ।
प्रसिद्धम् आत्मज्ञानम् अनुरुध्य ब्रह्मज्ञाननिष्ठा सुज्ञाना इत्याह -
यादृशमिति ।
तत्रापि प्रसिद्धिः अप्रसिद्धा इति शङ्कते -
कीदृगिति ।
अर्थेनैव विशेषो हि इति न्यायेन उत्तरम् आह -
यादृशः इति ।
तस्मिन्नपि विप्रतिपत्तेः अप्रसिद्धिम् अभिसन्धाय पृच्छति -
कीदृशः इति ।
भगवद्वाक्यानि उपनिषद्वाक्यानि च आश्रित्य परिहरति -
यादृशः इति ।
न जायते म्रियते वेत्यादीनि वाक्यानि । कूटस्थत्वम् असङ्गत्वम् इत्यादि न्यायः ।