श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
ननु विषयाकारं ज्ञानम् ज्ञानविषयः, नापि आकारवान् आत्मा इष्यते क्वचित्ननु आदित्यवर्णम्’ (श्वे. उ. ३ । ८) भारूपः’ (छा. उ. ३ । १४ । २) स्वयञ्ज्योतिः’ (बृ. उ. ४ । ३ । ९) इति आकारवत्त्वम् आत्मनः श्रूयते ; तमोरूपत्वप्रतिषेधार्थत्वात् तेषां वाक्यानाम्द्रव्यगुणाद्याकारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि आदित्यवर्णम्’ (श्वे. उ. ३ । ८) इत्यादीनि वाक्यानिअरूपम्’ (क. उ. १ । ३ । १५) इति विशेषतः रूपप्रतिषेधात्अविषयत्वाच्च सन्दृशे तिष्ठति रूपमस्य चक्षुषा पश्यति कश्चनैनम्’ (श्वे. उ. ४ । २०) अशब्दमस्पर्शम्’ (क. उ. १ । ३ । १५) इत्यादेःतस्मात् आत्माकारं ज्ञानम् इति अनुपपन्नम्

ज्ञानस्य विषयाकारत्वात् , आत्मनश्च अविषयत्वात् अनाकारत्वाच्च तदाकारज्ञानायोगात् , आत्मप्रसिद्धावपि न आत्मज्ञानप्रसिद्धिः इति शङ्कते -

नन्विति ।

आकारवत्त्वम् आत्मनः श्रुतिसिद्धम् इति सिद्धान्ती शङ्कते-

नन्वादित्येति ।

उक्तवाक्यानाम् अन्यार्थत्वदर्शनेन पूर्ववादी परिहरति -

नेत्यादिना ।

सङ्ग्रहवाक्यं प्रपञ्चयति -

द्रव्येति ।

इतश्च आकारवत्त्वम् आत्मनः नास्ति इति आह-

अरूपमिति ।

यत्  आत्मनः विषयत्वाभावात् तद्विषयं ज्ञानं न सम्भवति  इति उक्तं तत् उपपादयति-

अविषयत्वाच्चेति ।

आत्मनः अविषयत्वे श्रुतिम् उदाहरति -

नेत्यादिना ।

सन्दृशे - सम्यग्दर्शनविषयत्वाय, अस्य - आत्मनः, रूपं न तिष्ठति इत्यर्थः ।

तदेव करणागोचरत्वेन उपपादयति -

नेति ।

शब्दादिशून्यत्वाच्च आत्मा विषयः न भवति, इत्याह -

अशब्दमिति ।

आत्मनः विषयत्वाकारवत्त्वयोः अभावे फलितम् आह -

तस्मादिति ।