श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बुद्ध्या विशुद्धया युक्तो
धृत्यात्मानं नियम्य
शब्दादीन्विषयांस्त्यक्त्वा
रागद्वेषौ व्युदस्य ॥ ५१ ॥
सा इयं ज्ञानस्य परा निष्ठा उच्यते, कथं कार्या इति —

ब्रह्मज्ञानस्य परां निष्ठां प्रतिष्ठापिताम् अनूद्य श्लोकान्तरं पृच्छति -

सेयमिति ।

या इयं ब्रह्मज्ञानस्य परा निष्ठा - समारोपितातद्धर्मनिवृत्तिद्वारा ब्रह्मणि परिसमाप्तिः ज्ञानसन्तानरूपा उच्यते, सा कार्या सुसम्पाद्या इति यत् उक्तं तत् कथं केन  उपायेन ? इति प्रश्नार्थः ।