चित्तैकाग्र्यप्रसादार्थं विविक्तसेवित्वं व्याकरोति -
अरण्येति ।
निद्रादिदोषनिवृत्त्यर्थं लघ्वाशित्वं विशदयति -
लघ्विति ।
लघु - परिमितं हितं मेध्यं च अशितुं शीलम् अस्य इति तथा उच्यते ।
विशेषणयोः तात्पर्यं विवृणोति -
विविक्तेति ।
निद्रादीति आदिशब्दात् आलस्यप्रमादादयः बुद्धिविक्षेपकाः विवक्षिताः ।
वक्ष्यमाणध्यानयोगयोः उपायत्वेन विशेषणान्तरं विभजते -
वाक् चेति ।
वागादिसंयमस्य आवश्यकत्वद्योतनार्थं स्यात् इत्युक्तम् ।
संयतवागादिकरणग्रामस्य अनायासेन कर्तव्यम् उपदिशति -
एवमिति ।
मन्त्रजपादि इति आदिपदेन प्रदक्षिणप्रणामादयः ध्यानयोगप्रतिबन्धकाः गृहीताः ।
उक्तयोरेव ध्यानयोगयोः उपायत्वेन उक्तं विरागभावं विभजते -
दृष्टेति ।
सम्यक्त्वमेव व्यनक्ति -
नित्यमिति
॥ ५२ ॥