श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विविक्तसेवी लघ्वाशी
यतवाक्कायमानसः
ध्यानयोगपरो नित्यं
वैराग्यं समुपाश्रितः ॥ ५२ ॥
विविक्तसेवी अरण्यनदीपुलिनगिरिगुहादीन् विविक्तान् देशान् सेवितुं शीलम् अस्य इति विविक्तसेवी, लघ्वाशी लघ्वशनशीलःविविक्तसेवालघ्वशनयोः निद्रादिदोषनिवर्तकत्वेन चित्तप्रसादहेतुत्वात् ग्रहणम् ; यतवाक्कायमानसः वाक् कायश्च मानसं यतानि संयतानि यस्य ज्ञाननिष्ठस्य सः ज्ञाननिष्ठः यतिः यतवाक्कायमानसः स्यात्एवम् उपरतसर्वकरणः सन् ध्यानयोगपरः ध्यानम् आत्मस्वरूपचिन्तनम् , योगः आत्मविषये एकाग्रीकरणम् तौ परत्वेन कर्तव्यौ यस्य सः ध्यानयोगपरः नित्यं नित्यग्रहणं मन्त्रजपाद्यन्यकर्तव्याभावप्रदर्शनार्थम् , वैराग्यं विरागस्य भावः दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः सम्यक् उपाश्रितः नित्यमे इत्यर्थः ॥ ५२ ॥

चित्तैकाग्र्यप्रसादार्थं विविक्तसेवित्वं व्याकरोति -

अरण्येति ।

निद्रादिदोषनिवृत्त्यर्थं लघ्वाशित्वं विशदयति -

लघ्विति ।

लघु - परिमितं हितं मेध्यं च अशितुं शीलम् अस्य इति तथा उच्यते ।

विशेषणयोः तात्पर्यं विवृणोति -

विविक्तेति ।

निद्रादीति आदिशब्दात् आलस्यप्रमादादयः बुद्धिविक्षेपकाः विवक्षिताः ।

वक्ष्यमाणध्यानयोगयोः उपायत्वेन विशेषणान्तरं विभजते -

वाक् चेति ।

वागादिसंयमस्य आवश्यकत्वद्योतनार्थं स्यात् इत्युक्तम् ।

संयतवागादिकरणग्रामस्य अनायासेन कर्तव्यम् उपदिशति -

एवमिति ।

मन्त्रजपादि इति आदिपदेन प्रदक्षिणप्रणामादयः ध्यानयोगप्रतिबन्धकाः गृहीताः ।

उक्तयोरेव ध्यानयोगयोः उपायत्वेन उक्तं विरागभावं विभजते -

दृष्टेति ।

सम्यक्त्वमेव व्यनक्ति -

नित्यमिति

॥ ५२ ॥