श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विविक्तसेवी लघ्वाशी
यतवाक्कायमानसः
ध्यानयोगपरो नित्यं
वैराग्यं समुपाश्रितः ॥ ५२ ॥
ततः —

बुद्धेः वैशारद्यं यत्नेन कार्यकरणनियमनं, देहस्थितिहेत्वतिरिक्तविषयत्यागः, देहस्थित्यर्थेष्वपि तेषु रागद्वेषवर्जनम् , उपायभेदे सिद्धे, सन्ति उपायान्तराण्यपि यत्नसाध्यानि इत्याह -

तत इति ।