श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अहङ्कारं बलं दर्पं
कामं क्रोधं परिग्रहम्
विमुच्य निर्ममः शान्तो
ब्रह्मभूयाय कल्पते ॥ ५३ ॥
अहङ्कारम् अहङ्करणम् अहङ्कारः देहादिषु तम् , बलं सामर्थ्यं कामरागसंयुक्तम् — न इतरत् शरीरादिसामर्थ्यं स्वाभाविकत्वेन तत्त्यागस्य अशक्यत्वात् — दर्पं दर्पो नाम हर्षानन्तरभावी धर्मातिक्रमहेतुः ‘हृष्टो दृप्यति दृप्तो धर्ममतिक्रामति’ (आ. ध. सू. १ । १३ । ४) इति स्मरणात् ; तं च, कामम् इच्छां क्रोधं द्वेषं परिग्रहम् इन्द्रियमनोगतदोषपरित्यागेऽपि शरीरधारणप्रसङ्गेन धर्मानुष्ठाननिमित्तेन वा बाह्यः परिग्रहः प्राप्तः, तं च विमुच्य परित्यज्य, परमहंसपरिव्राजको भूत्वा, देहजीवनमात्रेऽपि निर्गतममभावः निर्ममः, अत एव शान्तः उपरतः, यः संहृतहर्षायासः यतिः ज्ञाननिष्ठः ब्रह्मभूयाय ब्रह्मभवनाय कल्पते समर्थो भवति ॥ ५३ ॥

नित्यं ध्यानयोगपरत्वे समुच्चितं कारणान्तरं विवृणोति -

अहङ्करणमिति ।

सामर्थ्यमात्रे बलशब्दात् उपलभ्यमाने किमिति विशेषवचनम् ? इति आशङ्क्य आह -

स्वाभाविकत्वेनेति ।

उक्ते अर्थं मानम् आह-

हृष्ट इति ।

वैराग्यशब्देन लब्धस्यापि कामत्यागस्य पुनः वचनं प्रकृष्टत्वख्यापनार्थम् ।

अहङ्कारादित्यागे परिग्रहप्राप्त्यभावात् तत्त्यागोक्तिः अयुक्ता इति आशङ्क्य, आह -

इन्द्रियेति ।

परिग्रहाभावे ममत्वविषयाभावात् निर्ममत्वं कथम् ? इति  आशङ्क्य, आह -

देहेति ।

अहङ्कारममकारयोः अभावेन प्राप्ताम् अन्तःकरणोपरतिम् अनुवदति -

अत एवेति ।

उक्तम् अनूद्य जीवन्नेव असौ ब्रह्म भवति इति फलितम् आह -

यः संहृतेति ।

ज्ञाननिष्ठपदात् ऊर्ध्वं सशब्दो द्रष्टव्यः । ब्रह्मणः भवनम् अनुसन्धानपरिपाकपर्यन्तं साक्षात्करणं तदर्थम् इति यावत्

॥ ५३ ॥