श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भक्त्या मामभिजानाति
यावान्यश्चास्मि तत्त्वतः
ततो मां तत्त्वतो ज्ञात्वा
विशते तदनन्तरम् ॥ ५५ ॥
भक्त्या माम् अभिजानाति यावान् अहम् उपाधिकृतविस्तरभेदः, यश्च अहम् अस्मि विध्वस्तसर्वोपाधिभेदः उत्तमः पुरुषः आकाशकल्पः, तं माम् अद्वैतं चैतन्यमात्रैकरसम् अजरम् अभयम् अनिधनं तत्त्वतः अभिजानाति । ततः माम् एवं तत्त्वतः ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानानन्तरम् । नात्र ज्ञानप्रवेशक्रिये भिन्ने विवक्षिते ‘ज्ञात्वा विशते तदनन्तरम्’ इति । किं तर्हि ? फलान्तराभावात् ज्ञानमात्रमेव, ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २) इति उक्तत्वात् ॥

तदेव ज्ञानं भक्तिपराधीनं विवृणोति -

यावानिति ।

आकाशकल्पत्वम् अनवच्छिन्नत्वम् असङ्गत्वं च ।

चैतन्यस्य विषयसापेक्षत्वं प्रतिक्षिपति -

अद्वैतमिति ।

ये तु द्रव्यबोधात्मत्वम् आत्मनः मन्यन्ते, तान् प्रति उक्तं -

चैतन्यमात्रेति ।

आत्मनि तन्मात्रेऽपि धर्मान्तरम् उपेत्य धर्मधर्मित्वं प्रत्याह -

एकरसमिति ।

सर्वविक्रियाराहित्योक्त्या कौटस्थ्यम् आत्मनः व्यवस्थापयति -

अजमिति ।

उक्तविक्रियाभावे तद्धेत्वज्ञानासम्बन्धं हेतुम् आह -

अभयमिति ।

तत्त्वज्ञानम् अनूद्य तत्फलं विदेहकैवल्यं लम्भयति -

तत इति ।

तत्त्वज्ञानस्य तस्मात् अनन्तरप्रवेशक्रियायाश्च भिन्नत्वं प्राप्तं प्रत्याह -

नात्रेति ।

भिन्नत्वाभावे का गतिः भेदोक्तेः, इति आशङ्क्य, औपचारिकत्वम् आह-

किं तर्हीति ।

प्रवेशः इति शेषः ।

ब्रह्मप्राप्तिरेव फलान्तरम् इति आशङ्क्य ब्रह्मात्मनोः भेदाभावात् न ज्ञानातिरिक्ता तत्प्राप्तिः इत्याह -

क्षेत्रज्ञं चेति ।