श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स्वकर्मणा भगवतः अभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः फलं ज्ञाननिष्ठायोग्यता, यन्निमित्ता ज्ञाननिष्ठा मोक्षफलावसानासः भगवद्भक्तियोगः अधुना स्तूयते शास्त्रार्थोपासंहारप्रकरणे शास्त्रार्थनिश्चयदार्ढ्याय

तर्हि  ज्ञाननिष्ठस्यैव मोक्षसम्भवात् , न कर्मानुष्ठानसिद्धिः इति आशङ्क्य, आह -

स्वकर्मणेति ।

तामेव सिद्धिप्राप्तिं विशिनष्टि -

ज्ञानेति ।

ज्ञाननिष्ठायोग्यतायै स्वकर्मानुष्ठानं भगवदर्चनरूपं कर्तव्यम् इत्यर्थः ।

ज्ञाननिष्ठायोग्यतापि किमर्था ? इति आशङ्क्य, ज्ञाननिष्ठासिद्ध्यर्था इत्याह -

यन्निमित्तेति ।

ज्ञाननिष्ठापि कुत्र उपयुक्ता ? इत्यत्र आह -

मोक्षेति ।

स्वकर्मणा भगवदर्चनात्मनः भक्तियोगस्य परम्परया मोक्षफलस्य कार्यत्वेन विधेयत्वे विध्यपेक्षितां स्तुतिम् अवतारयति -

स भगवदिति ।

ज्ञाननिष्ठा कर्मनिष्ठा इति उभयं प्रतिज्ञाय तत्र तत्र विभागेन प्रतिपादितम् ।

किमिति इदानीं कर्मनिष्ठा पुनः स्तुत्या कर्तव्यतया उच्यते ? तत्र आह-

शास्त्रार्थेति ।

तत्र तत्र उक्तस्यैव कर्मानुष्ठानस्य प्रकरणवशात् इह उपसंहारः । स च शास्त्रीार्थनिश्चयस्य दृढतां द्योतयति इत्यर्थः ।