श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः
बुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥
चेतसा विवेकबुद्ध्या सर्वकर्माणि दृष्टादृष्टार्थानि मयि ईश्वरे संन्यस्य यत् करोषि यदश्नासि’ (भ. गी. ९ । २७) इति उक्तन्यायेन, मत्परः अहं वासुदेवः परो यस्य तव सः त्वं मत्परः सन् मय्यर्पितसर्वात्मभावः बुद्धियोगं समाहितबुद्धित्वं बुद्धियोगः तं बुद्धियोगम् अपाश्रित्य अपाश्रयः अनन्यशरणत्वं मच्चित्तः मय्येव चित्तं यस्य तव सः त्वं मच्चित्तः सततं सर्वदा भव ॥ ५७ ॥

आश्रयशब्दार्थम् आह -

अनन्येति

॥ ५७ ॥