श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः
बुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥
यस्मात् एवम् —

परमेश्वरप्रसादस्य एवं माह्यत्म्यं यतः सिद्धं, तत्मात् तत्प्रसादार्थं भवता प्रयतितव्यम् इत्याह -

यस्मादिति ।

भगवत्प्रसादात् आसादितसम्यग्ज्ञानादेव मुक्तिः, न कर्ममात्रात् इति ज्ञानं विवेकबुद्धिः ।