मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ ५८ ॥
मच्चित्तः सर्वदुर्गाणि सर्वाणि दुस्तराणि संसारहेतुजातानि मत्प्रसादात् तरिष्यसि अतिक्रमिष्यसि । अथ चेत् यदि त्वं मदुक्तम् अहङ्कारात् ‘पण्डितः अहम्’ इति न श्रोष्यसि न ग्रहीष्यसि, ततः त्वं विनङ्क्ष्यसि विनाशं गमिष्यसि ॥ ५८ ॥