श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥
यस्माच्च —

इतश्च त्वया युद्धात् न वैमुख्यं कर्तुम् उचितम् इत्याह -

यस्माच्चेति ।

स्वभावजेन स्वेन कर्मणा निबद्धः त्वम् इति सम्बन्धः

॥ ६० ॥