ईश्वरः सर्वाणि भूतानि प्रेरयति चेत् प्राप्तकैवल्यस्यापि पुरुषकारस्य आनर्थक्यम् इति आशङ्क्य आह -
तमेवेति ।
सर्वात्मना - मनोवृत्त्या वाचा कर्मणा च इत्यर्थः । ईश्वरस्य अनुग्रहात् तत्त्वज्ञानोत्पत्तिपर्यन्तात् इति शेषः । मुक्ताः तिष्ठन्ति अस्मिन् इति स्थानम्
॥ ६२ ॥