श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वगुह्यतमं भूयः
शृणु मे परमं वचः
इष्टोऽसि मे दृढमिति
ततो वक्ष्यामि ते हितम् ॥ ६४ ॥
सर्वगुह्यतमं सर्वेभ्यः गुह्येभ्यः अत्यन्तगुह्यतमम् अत्यन्तरहस्यम् , उक्तमपि असकृत् भूयः पुनः शृणु मे मम परमं प्रकृष्टं वचः वाक्यम् भयात् नापि अर्थकारणाद्वा वक्ष्यामि ; किं तर्हि ? इष्टः प्रियः असि मे मम दृढम् अव्यभिचारेण इति कृत्वा ततः तेन कारणेन वक्ष्यामि कथयिष्यामि ते तव हितं परमं ज्ञानप्राप्तिसाधनम् , तद्धि सर्वहितानां हिततमम् ॥ ६४ ॥

किमर्थम् इच्छन् पुनः पुनः अभिदधासि इति आशङ्क्य आह -

न भयादिति ।

हितमिति साधारणनिर्देशे, कथं परमम् इत्यादिविशेषणम् ? इति आशङ्क्य आह -

तद्धीति

॥ ६४ ॥