श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मन्मना भव मद्भक्तो
मद्याजी मां नमस्कुरु
मामेवैष्यसि सत्यं ते
प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥
मन्मनाः भव मच्चित्तः भवमद्भक्तः भव मद्भजनो भवमद्याजी मद्यजनशीलो भवमां नमस्कुरु नमस्कारम् अपि ममैव कुरुतत्र एवं वर्तमानः वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनः मामेव एष्यसि आगमिष्यसिसत्यं ते तव प्रतिजाने, सत्यां प्रतिज्ञां करोमि एतस्मिन् वस्तुनि इत्यर्थः ; यतः प्रियः असि मेएवं भगवतः सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यंभावि मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति वाक्यार्थः ॥ ६५ ॥

उत्तरार्धं व्याचष्टे -

तत्रेति ।

एवम् उक्तया रीत्या वर्तमानः त्वं तस्मिन्नेव वासुदेवे भगवति अर्पितसर्वभावः मामेव आगमिष्यसि इति सम्बन्धः ।

सत्यप्रतिज्ञाकरणे हेतुम् आह -

यत इति ।

इदानीं वाक्यार्थं श्रेयोऽथिनां प्रवृत्त्युपयोगित्वेन सङ्गृह्णाति -

एवमिति ।

॥ ६५ ॥