श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
आत्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वम् , भेदप्रत्ययनिवर्तकत्वेन कैवल्यफलावसायित्वात्क्रियाकारकफलभेदबुद्धिः अविद्यया आत्मनि नित्यप्रवृत्ता — ‘मम कर्म, अहं कर्तामुष्मै फलायेदं कर्म करिष्यामिइति इयम् अविद्या अनादिकालप्रवृत्ताअस्या अविद्यायाः निवर्तकम्अयमहमस्मि केवलोऽकर्ता अक्रियोऽफलः ; मत्तोऽन्योऽस्ति कश्चित्इत्येवंरूपम् आत्मविषयं ज्ञानम् उत्पद्यमानम् , कर्मप्रवृत्तिहेतुभूतायाः भेदबुद्धेः निवर्तकत्वात्तु - शब्दः पक्षव्यावृत्त्यर्थः केवलेभ्यः कर्मभ्यः, ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रेयसप्राप्तिः इति पक्षद्वयं निवर्तयतिअकार्यत्वाच्च निःश्रेयसस्य कर्मसाधनत्वानुपपत्तिः हि नित्यं वस्तु कर्मणा ज्ञानेन वा क्रियतेकेवलं ज्ञानमपि अनर्थकं तर्हि ? , अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात्अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्टं कैवल्यफलावसानत्वम् , रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत्विनिवृत्तसर्पादिविकल्परज्जुकैवल्यावसानं हि प्रकाशफलम् ; तथा ज्ञानम्दृष्टार्थानां च्छिदिक्रियाग्निमन्थनादीनां व्यापृतकर्त्रादिकारकाणां द्वैधीभावाग्निदर्शनादिफलात् अन्यफले कर्मान्तरे वा व्यापारानुपपत्तिः यथा, तथा दृष्टार्थायां ज्ञाननिष्ठाक्रियायां व्यापृतस्य ज्ञात्रादिकारकस्य आत्मकैवल्यफलात् कर्मान्तरे प्रवृत्तिः अनुपपन्ना इति ज्ञाननिष्ठा कर्मसहिता उपपद्यतेभुज्यग्निहोत्रादिक्रियावत्स्यात् इति चेत् , ; कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेःकैवल्यफले हि ज्ञाने प्राप्ते, सर्वतःसम्प्लुतोदकफले कूपतटाकादिक्रियाफलार्थित्वाभाववत् , फलान्तरे तत्साधनभूतायां वा क्रियायाम् अर्थित्वानुपपत्तिः हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले व्यापारः उपपद्यते, तद्विषयं वा अर्थित्वम्तस्मात् कर्मणोऽस्ति निःश्रेयससाधनत्वम् ज्ञानकर्मणोः समुच्चितयोःनापि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्यापेक्षा, अविद्यानिवर्तकत्वेन विरोधात् हि तमः तमसः निवर्तकम्अतः केवलमेव ज्ञानं निःश्रेयससाधनम् इति ; नित्याकरणे प्रत्यवायप्राप्तेः, कैवल्यस्य नित्यत्वात्यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिः इत्येतत् , तत् असत् ; यतः नित्यानां कर्मणां श्रुत्युक्तानाम् अकरणे प्रत्यवायः नरकादिप्राप्तिलक्षणः स्यात्ननु एवं तर्हि कर्मभ्यो मोक्षो नास्ति इति अनिर्मोक्ष एवनैष दोषः ; नित्यत्वात् मोक्षस्यनित्यानां कर्मणाम् अनुष्ठानात् प्रत्यवायस्य अप्राप्तिः, प्रतिषिद्धस्य अकरणात् अनिष्टशरीरानुपपत्तिः, काम्यानां वर्जनात् इष्टशरीरानुपपत्तिः, वर्तमानशरीरारम्भकस्य कर्मणः फलोपभोगक्षये पतिते अस्मिन् शरीरे देहान्तरोत्पत्तौ कारणाभावात् आत्मनः रागादीनां अकरणे स्वरूपावस्थानमेव कैवल्यमिति अयत्नसिद्धं कैवल्यम् इतिअतिक्रान्तानेकजन्मान्तरकृतस् स्वर्गनरकादिप्राप्तिफलस्य अनारब्धकार्यस्य उपभोगानुपपत्तेः क्षयाभावः इति चेत् , ; नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेःप्रायश्चित्तवद्वा पूर्वोपात्तदुरितक्षयार्थं नित्यं कर्मआरब्धानां कर्मणाम् उपभोगेनैव क्षीणत्वात् अपूर्वाणां कर्मणाम् अनारम्भे अयत्नसिद्धं कैवल्यमिति ; तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति विद्याया अन्यः पन्थाः मोक्षाय विद्यते इति श्रुतेः, चर्मवदाकाशवेष्टनासम्भववत् अविदुषः मोक्षासम्भवश्रुतेः, ज्ञानात्कैवल्यमाप्नोति’ ( ? ) इति पुराणस्मृतेः ; अनारब्धफलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्चयथा पूर्वोपात्तानां दुरितानाम् अनारब्धफलानां सम्भवः, तथा पुण्यानाम् अनारब्धफलानां स्यात्सम्भवःतेषां देहान्तरम् अकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिःधर्माधर्महेतूनां रागद्वेषमोहानाम् अन्यत्र आत्मज्ञानात् उच्छेदानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिःनित्यानां कर्मणां पुण्यफलत्वश्रुतेः, वर्णा आश्रमाश्च स्वकर्मनिष्ठाः’ (गौ. ध. सू. २ । २ । २९) इत्यादिस्मृतेश्च कर्मक्षयानुपपत्तिः

आत्मेति ; क्रियेति ; आत्मनीति ; ममेति ; अनादीति ; अस्या इति ; उत्पद्यमानम् इति ; कर्मेति ; तुशब्द इति ; नेत्यादिना ; अकार्यत्वाच्चेति ; न हीति ; केवलेति ; नेति ; अविद्येति ; रज्ज्वादीति ; विनिवृत्तेति ; तथेति ; दृष्टार्थायामिति ; भुजीति ; नेत्यादिना ; कैवल्येति ; सर्वत इति ; न हीति ; तस्मान्नेति ; न चेति ; नापीति ; अविद्येति ; न हीति ; अत इति ; नेत्यादिना ; यत्तावदिति ; नन्विति ; नैष दोष इति ; नित्यानामिति ; काम्यानां चेति ; वर्तमानेति ; पतितेऽस्मिन् इति ; रागादीनां चेति ; अतिक्रान्तेति ; नेति ; नित्येति ; प्रायश्चित्तवदिति ; आरब्धानां चेति ; अपूर्वाणां चेति ; नेत्यादिना ; अन्यइति ; चर्मवदिति ; ज्ञानादिति ; अनारब्धेति ; यथेति ; तेषां चेति ; धर्मेति ; नित्यानामिति ; वर्णा इति ;

एवं विचारम् अवतार्य सिद्धान्तं सङ्गृह्णाति -

आत्मेति ।

सङ्ग्रहवाक्यं विवृण्वन् आदौ आत्मज्ञानापोह्याम् अविद्यां दर्शयति-

क्रियेति ।

आश्रयोक्त्या तदनादित्वम् आह -

आत्मनीति ।

तमेव अविद्याम् अनाद्यविद्योत्थाम् अनर्थात्मिकां प्रपञ्चयति -

ममेति ।

अनाद्यविद्याकार्यत्वात् प्रवाहरूपेण अनादित्वम् अस्याः विवक्षित्वा विशिनष्टि -

अनादीति ।

तत्र कारणाविद्यानिवर्तकत्वम् आत्मज्ञानस्य उपन्यस्यति-

अस्या इति ।

ननु न इदम् उत्पन्नं ज्ञानं निवर्तयति, अविरोधेन उत्पन्नत्वात् । न च अनुत्पन्नम् , अलब्धात्मकस्य अर्थक्रियाकारित्वाभावत् । तत्र आह -

उत्पद्यमानम् इति ।

कथं तस्य कारणाविद्यानिवर्तकत्वम् इति आशङक्य कार्याविद्यानिवर्तकत्वदृष्टेः इत्याह -

कर्मेति ।

आत्मज्ञानस्य इत्यादिसङ्ग्रहवाक्ये तुशब्दद्योत्यविशेषाभावात् तदानर्थक्यम् आशङ्क्य, आह -

तुशब्द इति ।

पक्षद्वयव्यावर्तकत्वम् एव अस्य स्फुटयति -

नेत्यादिना ।

इतश्च कर्मासाध्यता मुक्तेः इत्याह -

अकार्यत्वाच्चेति ।

‘एष नित्यो महिमा’ इति श्रुतेः नित्यत्वेन मोक्षस्य अकार्यत्वात् न तत्र हेत्वपेक्षा इति उपपादयति -

न हीति ।

ज्ञानेनापि मोक्षः न क्रियते चेत् , तर्हि केवलमपि ज्ञानं मुक्त्यनुपयुक्तम् इति, कुतः तस्य हेतुत्वधीः ? इति आशङ्कते-

केवलेति ।

ज्ञानानर्थक्यं दूषयति -

नेति ।

तदेव प्रपञ्चयति -

अविद्येति ।

यत् उक्तम् अविद्यानिवर्तकज्ञानस्य कैवल्यफलावसायित्वं दृष्टम् इति, तत्र दृष्टान्तम् आह -

रज्ज्वादीति ।

उक्ते विषये तमोनिवर्तकप्रकाशस्य कस्मिन् फले पर्यवसानम् ? तत्र आह-

विनिवृत्तेति ।

प्रदीपप्रकाशस्य सर्पभ्रमनिवृत्तिद्वारा रज्जुमात्रे पर्यवसानवत् आत्मज्ञानस्यापि तदविद्यानिवृत्त्यात्मकैवल्यावसानमिति दार्ष्टान्तिकम् आह -

तथेति ।

ज्ञात्रादीनां ज्ञाननिष्ठाहेतूनां कर्मान्तरे प्रवृत्तिसम्भवात् , कर्मसहितैव सा कैवल्यावसायिनी, इति चेत् तत्र आह -

दृष्टार्थायामिति ।

कर्मसाहित्यं, ज्ञाननिष्ठायाः, दृष्टान्तेन साधयन् आशङ्कते -

भुजीति ।

भुजिक्रिायाः लौकिक्याः, वैदिक्याश्च अग्निहोत्रादिक्रियायाः सहानुष्ठानवत् अग्निहोत्रादिक्रियायाः ज्ञाननिष्ठायाश्च साहित्यम् इत्यर्थः । भुजिफले तृप्त्याख्ये प्राप्तेऽपि, स्वर्गादौ च अग्निहोत्रादौ अर्थित्वदृष्टेः युक्तं तत्र साहित्यम् । न तथा मुक्तिफलज्ञाननिष्ठालाभे, स्वर्गादौ तद्धेतौ वा कर्मणि अर्थित्वम् ।

तेन ज्ञाननिष्ठाकर्मणोः न साहित्यम् इति परिहरति -

नेत्यादिना ।

सङ्ग्रहवाक्यं विवृणोति -

कैवल्येति ।

ज्ञाने फलवति लब्धे, फलान्तरे तद्धेतौ च न अर्थिता, इत्यत्र दृष्ठान्तम् आह -

सर्वत इति ।

सर्वत्र सम्प्लुतं व्याप्तम् उदकम् इति समु्द्रोक्तिः । तत्फलं स्नानादि । तस्मिन् प्राप्ते, न तडागादिनिर्माणक्रियायां, तदधीने च स्नानादौ कस्यचित् अर्थित्वम् , तथा प्रकृतेऽपि, इत्यर्थः ।

निरतिशयफले ज्ञाने लब्धे, सातिशयफले कर्मणि न अर्थित्वम् इत्येतत् दृष्टान्तेन स्फुटयति-

न हीति ।

कर्मणः सातिशयफलत्वम् उक्तम् उपजीव्य फलितम् आह-

तस्मान्नेति ।

ज्ञानकर्मणोः साहित्यासम्भवमपि पूर्वोक्तं निगमयति -

न चेति ।

न हि प्रकाशतमसोरिव मिथः विरुद्धयोः तयोः साक्षात् एकस्मिन् फले साहित्यम् इत्यर्थः ।

ननु ज्ञानमेव मोक्षं साधयत्  आत्मसहायत्वेन कर्म अपेक्षते, करणस्य उपकरणापेक्षत्वात् । तत्र आह -

नापीति ।

ज्ञानम् उत्पत्तौ यज्ञाद्यपेक्षमपि, न उत्पन्नं फले तदपेक्षम् । स्वोत्पत्तिनान्तरीयकत्वेन मुक्तेः तन्मात्रायत्तत्वात् इत्यर्थः ।

यत् उक्तम् इतिकर्तव्यत्वेन ज्ञानं  कर्मापेक्षम् इति, तत्र आह -

अविद्येति ।

ज्ञानस्य अज्ञाननिवर्तकत्वात्  , तत्र कर्मणः विरुद्धतया सहकारित्वायोगात् न फले तदपेक्षा इत्यर्थः ।

कर्मणोऽपि ज्ञानवत् अज्ञाननिवर्तकत्वे कुतः विरुद्धता ? इति आशङ्क्य, आह -

न हीति ।

केवलस्य समुच्चितस्य वा कर्मंणः मोक्षे साक्षात् अनन्वये फलितम् आह -

अत इति ।

केवलं ज्ञानं मुक्तिसाधनम् इति उक्तम् । तत् निषेधयन् आशङ्कते -

नेत्यादिना ।

निषेध्यम् अनूद्य नञर्थम् आह -

यत्तावदिति ।

नित्यानुष्ठानस्य आवश्यकत्वात् न केवलज्ञानस्य कैवल्यहेतुता इत्यर्थः ।

कैवल्यस्य च नित्यत्वात् इत्यस्य व्यावर्त्यं दर्शयति -

नन्विति ।

यदि नित्यनैमित्तिककर्माणि श्रौतानि, अकरणे प्रत्यवायकारीणि अवश्यानुष्ठेयानि, एवं तर्हि तेभ्यः समुच्चितेभ्यः असमुच्चितेभ्यश्च मोक्षः न इति उक्तत्वात् केवलज्ञानस्य च अतद्धेतुत्वात् अनिबन्धना मुक्तिः न सिध्येत् इत्यर्थः ।

कैवल्यस्य च इत्यादि व्याकुर्वन् अनिर्मोक्षप्रसङ्गं प्रत्यादिशति-

नैष दोष इति ।

मुक्तेः नित्यत्वेन अयत्नसिद्धेः न तदभावशङ्का इत्युक्तं प्रपञ्चयति -

नित्यानामिति ।

काम्यकर्मवशात् इष्टशरीरापत्तिं शङ्कित्वा उक्तम् -

काम्यानां चेति ।

आरब्धकर्मवशात् तर्हि देहान्तरं न इत्याह -

वर्तमानेति ।

तर्हि देहान्तरं शेषकर्मणा स्यात् , इति आशङ्क्य कर्माशयस्य ऐकभविकत्वात् न इत्याह -

पतितेऽस्मिन् इति ।

रागादिना कर्मान्तरं, ततः देहान्तरं च भविष्यति इति आशङ्क्य आह -

रागादीनां चेति ।

आत्मनः स्वरूपावस्थानम् इति सम्बन्धः ।

अतीतासङ्ख्यजन्मभेदेषु अर्जितस्य कर्मणः नानाफलस्य अनारब्धस्य भोगेन विना अक्षयात् , ततः देहान्तरारम्भात् , ऐकभविकत्वस्य अप्रामाणिकत्वात् न मुक्तेः अयत्नसिद्धता इति चोदयति -

अतिक्रान्तेति ।

न उक्तकर्मनिमित्तं देहान्तरं शङ्कितव्यम् इत्याह -

नेति ।

नित्यनैमित्तिककर्माणि श्रौतानि अवश्यम् अनुष्ठेयानि । तदनुष्ठाने च महान् आयासः । ततः दुःखोपभोगः ।

तस्य उक्तानारब्धकर्मफलभोगत्वोपगमात् न ततः देहान्तरम् इत्याह-

नित्येति ।

नित्यादिना दुरितनिवृत्तावपि अविरोधात् न सुकृतनिवृत्तिः, ततः देहान्तरम् इति आशङ्क्य, सुकृतस्य नित्यादेः अन्यत्वे अनारब्धत्वे च, न्यायविरुद्धस्य तस्य असिद्धत्वात् ततः देहान्तरायोगात् नित्यादेः अनन्यत्वे च न तस्य फलान्तरम् इति मत्वा, यथा प्रायश्चित्तम् उपात्तदुरितनिबर्हणार्थं, न फलान्तरापेक्षं, तथा इदं सर्वमपि नित्यादिकर्म उपात्तपापनिराकरणार्थं तस्मिन्नेव पर्यवस्यत् न देहान्तरारम्भकम् इति पक्षान्तरम् आह -

प्रायश्चित्तवदिति ।

तथापि प्रारब्धवशादेव देहान्तरं शङ्क्यते, नानाजन्मारम्भकाणामपि तेषां यावदधिकारन्यायेन सम्भवात् , इति आशङ्क्य आह -

आरब्धानां चेति ।

पूर्वार्जितकर्मणाम् एवं क्षीणत्वेऽपि, कानिचित् अपूर्वकर्माणि देहान्तरम् आरभेरन् इति आशङ्क्य आह -

अपूर्वाणां चेति ।

विना ज्ञानं कर्मणैव मुक्तिः इति पक्षं श्रुत्यवष्टम्भेन निराचष्ठे-

नेत्यादिना ।

विद्यते अयनाय इति श्रुतेः इति सम्बन्धः ।

एवकारार्थं विवृण्वन् नेत्यादिभागं व्याकरोति -

अन्यइति ।

“यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।“
इति श्रुतिम् अर्थतः अनुवदति -

चर्मवदिति ।

श्रौतार्थे स्मृतिं संवादयति -

ज्ञानादिति ।

किञ्च त्वदीयन्यायस्य अनुग्राह्यमानहीनत्वेन आभासतया पुण्यकर्मणाम् अनारब्धफलानां क्षयाभावे देहान्तरारम्भसम्भावत् न ज्ञानं विना मुक्तिः इत्याह -

अनारब्धेति ।

तथाविधानां कर्मणां नास्ति सम्भावना इति आशङ्क्य अह -

यथेति ।

अनारब्धफलपुण्यकर्माभावेऽपि कथं मोक्षानुपपत्तिः ? इति तत्र आह -

तेषां चेति ।

इतश्च कर्मक्षयानुपपत्त्या मोक्षानुपपत्तिः, इति तत्र आह -

धर्मेति ।

‘कर्मणा पितृलोकः’ (बृ. उ. १-५-१६) इति श्रुतिम् आश्रित्य कर्माक्षये हेत्वन्तरम् आह -

नित्यानामिति ।

स्मृत्यापि यथोक्तम् अर्थं समर्थयति -

वर्णा इति ।

प्रेत्य कर्मफलम् अनुभूय, ततः शेषेण विशिष्टजात्यादिभाजः जन्म प्रतिपद्यन्ते इति एतदादिपदार्थः ।