एवं विचारम् अवतार्य सिद्धान्तं सङ्गृह्णाति -
आत्मेति ।
सङ्ग्रहवाक्यं विवृण्वन् आदौ आत्मज्ञानापोह्याम् अविद्यां दर्शयति-
क्रियेति ।
आश्रयोक्त्या तदनादित्वम् आह -
आत्मनीति ।
तमेव अविद्याम् अनाद्यविद्योत्थाम् अनर्थात्मिकां प्रपञ्चयति -
ममेति ।
अनाद्यविद्याकार्यत्वात् प्रवाहरूपेण अनादित्वम् अस्याः विवक्षित्वा विशिनष्टि -
अनादीति ।
तत्र कारणाविद्यानिवर्तकत्वम् आत्मज्ञानस्य उपन्यस्यति-
अस्या इति ।
ननु न इदम् उत्पन्नं ज्ञानं निवर्तयति, अविरोधेन उत्पन्नत्वात् । न च अनुत्पन्नम् , अलब्धात्मकस्य अर्थक्रियाकारित्वाभावत् । तत्र आह -
उत्पद्यमानम् इति ।
कथं तस्य कारणाविद्यानिवर्तकत्वम् इति आशङक्य कार्याविद्यानिवर्तकत्वदृष्टेः इत्याह -
कर्मेति ।
आत्मज्ञानस्य इत्यादिसङ्ग्रहवाक्ये तुशब्दद्योत्यविशेषाभावात् तदानर्थक्यम् आशङ्क्य, आह -
तुशब्द इति ।
पक्षद्वयव्यावर्तकत्वम् एव अस्य स्फुटयति -
नेत्यादिना ।
इतश्च कर्मासाध्यता मुक्तेः इत्याह -
अकार्यत्वाच्चेति ।
‘एष नित्यो महिमा’ इति श्रुतेः नित्यत्वेन मोक्षस्य अकार्यत्वात् न तत्र हेत्वपेक्षा इति उपपादयति -
न हीति ।
ज्ञानेनापि मोक्षः न क्रियते चेत् , तर्हि केवलमपि ज्ञानं मुक्त्यनुपयुक्तम् इति, कुतः तस्य हेतुत्वधीः ? इति आशङ्कते-
केवलेति ।
ज्ञानानर्थक्यं दूषयति -
नेति ।
तदेव प्रपञ्चयति -
अविद्येति ।
यत् उक्तम् अविद्यानिवर्तकज्ञानस्य कैवल्यफलावसायित्वं दृष्टम् इति, तत्र दृष्टान्तम् आह -
रज्ज्वादीति ।
उक्ते विषये तमोनिवर्तकप्रकाशस्य कस्मिन् फले पर्यवसानम् ? तत्र आह-
विनिवृत्तेति ।
प्रदीपप्रकाशस्य सर्पभ्रमनिवृत्तिद्वारा रज्जुमात्रे पर्यवसानवत् आत्मज्ञानस्यापि तदविद्यानिवृत्त्यात्मकैवल्यावसानमिति दार्ष्टान्तिकम् आह -
तथेति ।
ज्ञात्रादीनां ज्ञाननिष्ठाहेतूनां कर्मान्तरे प्रवृत्तिसम्भवात् , कर्मसहितैव सा कैवल्यावसायिनी, इति चेत् तत्र आह -
दृष्टार्थायामिति ।
कर्मसाहित्यं, ज्ञाननिष्ठायाः, दृष्टान्तेन साधयन् आशङ्कते -
भुजीति ।
भुजिक्रिायाः लौकिक्याः, वैदिक्याश्च अग्निहोत्रादिक्रियायाः सहानुष्ठानवत् अग्निहोत्रादिक्रियायाः ज्ञाननिष्ठायाश्च साहित्यम् इत्यर्थः । भुजिफले तृप्त्याख्ये प्राप्तेऽपि, स्वर्गादौ च अग्निहोत्रादौ अर्थित्वदृष्टेः युक्तं तत्र साहित्यम् । न तथा मुक्तिफलज्ञाननिष्ठालाभे, स्वर्गादौ तद्धेतौ वा कर्मणि अर्थित्वम् ।
तेन ज्ञाननिष्ठाकर्मणोः न साहित्यम् इति परिहरति -
नेत्यादिना ।
सङ्ग्रहवाक्यं विवृणोति -
कैवल्येति ।
ज्ञाने फलवति लब्धे, फलान्तरे तद्धेतौ च न अर्थिता, इत्यत्र दृष्ठान्तम् आह -
सर्वत इति ।
सर्वत्र सम्प्लुतं व्याप्तम् उदकम् इति समु्द्रोक्तिः । तत्फलं स्नानादि । तस्मिन् प्राप्ते, न तडागादिनिर्माणक्रियायां, तदधीने च स्नानादौ कस्यचित् अर्थित्वम् , तथा प्रकृतेऽपि, इत्यर्थः ।
निरतिशयफले ज्ञाने लब्धे, सातिशयफले कर्मणि न अर्थित्वम् इत्येतत् दृष्टान्तेन स्फुटयति-
न हीति ।
कर्मणः सातिशयफलत्वम् उक्तम् उपजीव्य फलितम् आह-
तस्मान्नेति ।
ज्ञानकर्मणोः साहित्यासम्भवमपि पूर्वोक्तं निगमयति -
न चेति ।
न हि प्रकाशतमसोरिव मिथः विरुद्धयोः तयोः साक्षात् एकस्मिन् फले साहित्यम् इत्यर्थः ।
ननु ज्ञानमेव मोक्षं साधयत् आत्मसहायत्वेन कर्म अपेक्षते, करणस्य उपकरणापेक्षत्वात् । तत्र आह -
नापीति ।
ज्ञानम् उत्पत्तौ यज्ञाद्यपेक्षमपि, न उत्पन्नं फले तदपेक्षम् । स्वोत्पत्तिनान्तरीयकत्वेन मुक्तेः तन्मात्रायत्तत्वात् इत्यर्थः ।
यत् उक्तम् इतिकर्तव्यत्वेन ज्ञानं कर्मापेक्षम् इति, तत्र आह -
अविद्येति ।
ज्ञानस्य अज्ञाननिवर्तकत्वात् , तत्र कर्मणः विरुद्धतया सहकारित्वायोगात् न फले तदपेक्षा इत्यर्थः ।
कर्मणोऽपि ज्ञानवत् अज्ञाननिवर्तकत्वे कुतः विरुद्धता ? इति आशङ्क्य, आह -
न हीति ।
केवलस्य समुच्चितस्य वा कर्मंणः मोक्षे साक्षात् अनन्वये फलितम् आह -
अत इति ।
केवलं ज्ञानं मुक्तिसाधनम् इति उक्तम् । तत् निषेधयन् आशङ्कते -
नेत्यादिना ।
निषेध्यम् अनूद्य नञर्थम् आह -
यत्तावदिति ।
नित्यानुष्ठानस्य आवश्यकत्वात् न केवलज्ञानस्य कैवल्यहेतुता इत्यर्थः ।
कैवल्यस्य च नित्यत्वात् इत्यस्य व्यावर्त्यं दर्शयति -
नन्विति ।
यदि नित्यनैमित्तिककर्माणि श्रौतानि, अकरणे प्रत्यवायकारीणि अवश्यानुष्ठेयानि, एवं तर्हि तेभ्यः समुच्चितेभ्यः असमुच्चितेभ्यश्च मोक्षः न इति उक्तत्वात् केवलज्ञानस्य च अतद्धेतुत्वात् अनिबन्धना मुक्तिः न सिध्येत् इत्यर्थः ।
कैवल्यस्य च इत्यादि व्याकुर्वन् अनिर्मोक्षप्रसङ्गं प्रत्यादिशति-
नैष दोष इति ।
मुक्तेः नित्यत्वेन अयत्नसिद्धेः न तदभावशङ्का इत्युक्तं प्रपञ्चयति -
नित्यानामिति ।
काम्यकर्मवशात् इष्टशरीरापत्तिं शङ्कित्वा उक्तम् -
काम्यानां चेति ।
आरब्धकर्मवशात् तर्हि देहान्तरं न इत्याह -
वर्तमानेति ।
तर्हि देहान्तरं शेषकर्मणा स्यात् , इति आशङ्क्य कर्माशयस्य ऐकभविकत्वात् न इत्याह -
पतितेऽस्मिन् इति ।
रागादिना कर्मान्तरं, ततः देहान्तरं च भविष्यति इति आशङ्क्य आह -
रागादीनां चेति ।
आत्मनः स्वरूपावस्थानम् इति सम्बन्धः ।
अतीतासङ्ख्यजन्मभेदेषु अर्जितस्य कर्मणः नानाफलस्य अनारब्धस्य भोगेन विना अक्षयात् , ततः देहान्तरारम्भात् , ऐकभविकत्वस्य अप्रामाणिकत्वात् न मुक्तेः अयत्नसिद्धता इति चोदयति -
अतिक्रान्तेति ।
न उक्तकर्मनिमित्तं देहान्तरं शङ्कितव्यम् इत्याह -
नेति ।
नित्यनैमित्तिककर्माणि श्रौतानि अवश्यम् अनुष्ठेयानि । तदनुष्ठाने च महान् आयासः । ततः दुःखोपभोगः ।
तस्य उक्तानारब्धकर्मफलभोगत्वोपगमात् न ततः देहान्तरम् इत्याह-
नित्येति ।
नित्यादिना दुरितनिवृत्तावपि अविरोधात् न सुकृतनिवृत्तिः, ततः देहान्तरम् इति आशङ्क्य, सुकृतस्य नित्यादेः अन्यत्वे अनारब्धत्वे च, न्यायविरुद्धस्य तस्य असिद्धत्वात् ततः देहान्तरायोगात् नित्यादेः अनन्यत्वे च न तस्य फलान्तरम् इति मत्वा, यथा प्रायश्चित्तम् उपात्तदुरितनिबर्हणार्थं, न फलान्तरापेक्षं, तथा इदं सर्वमपि नित्यादिकर्म उपात्तपापनिराकरणार्थं तस्मिन्नेव पर्यवस्यत् न देहान्तरारम्भकम् इति पक्षान्तरम् आह -
प्रायश्चित्तवदिति ।
तथापि प्रारब्धवशादेव देहान्तरं शङ्क्यते, नानाजन्मारम्भकाणामपि तेषां यावदधिकारन्यायेन सम्भवात् , इति आशङ्क्य आह -
आरब्धानां चेति ।
पूर्वार्जितकर्मणाम् एवं क्षीणत्वेऽपि, कानिचित् अपूर्वकर्माणि देहान्तरम् आरभेरन् इति आशङ्क्य आह -
अपूर्वाणां चेति ।
विना ज्ञानं कर्मणैव मुक्तिः इति पक्षं श्रुत्यवष्टम्भेन निराचष्ठे-
नेत्यादिना ।
विद्यते अयनाय इति श्रुतेः इति सम्बन्धः ।
एवकारार्थं विवृण्वन् नेत्यादिभागं व्याकरोति -
अन्यइति ।
“यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।“
इति श्रुतिम् अर्थतः अनुवदति -
चर्मवदिति ।
श्रौतार्थे स्मृतिं संवादयति -
ज्ञानादिति ।
किञ्च त्वदीयन्यायस्य अनुग्राह्यमानहीनत्वेन आभासतया पुण्यकर्मणाम् अनारब्धफलानां क्षयाभावे देहान्तरारम्भसम्भावत् न ज्ञानं विना मुक्तिः इत्याह -
अनारब्धेति ।
तथाविधानां कर्मणां नास्ति सम्भावना इति आशङ्क्य अह -
यथेति ।
अनारब्धफलपुण्यकर्माभावेऽपि कथं मोक्षानुपपत्तिः ? इति तत्र आह -
तेषां चेति ।
इतश्च कर्मक्षयानुपपत्त्या मोक्षानुपपत्तिः, इति तत्र आह -
धर्मेति ।
‘कर्मणा पितृलोकः’ (बृ. उ. १-५-१६) इति श्रुतिम् आश्रित्य कर्माक्षये हेत्वन्तरम् आह -
नित्यानामिति ।
स्मृत्यापि यथोक्तम् अर्थं समर्थयति -
वर्णा इति ।
प्रेत्य कर्मफलम् अनुभूय, ततः शेषेण विशिष्टजात्यादिभाजः जन्म प्रतिपद्यन्ते इति एतदादिपदार्थः ।