श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इदं ते नातपस्काय
नाभक्ताय कदाचन
चाशुश्रूषवे वाच्यं
मां योऽभ्यसूयति ॥ ६७ ॥
इदं शास्त्रं ते तव हिताय मया उक्तं संसारविच्छित्तये अतपस्काय तपोरहिताय न वाच्यम् इति व्यवहितेन सम्बध्यते । तपस्विनेऽपि अभक्ताय गुरौ देवे च भक्तिरहिताय कदाचन कस्याञ्चिदपि अवस्थायां न वाच्यम् । भक्तः तपस्वी अपि सन् अशुश्रूषुः यो भवति तस्मै अपि न वाच्यम् । न च यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति आत्मप्रशंसादिदोषाध्यारोपणेन ईश्वरत्वं मम अजानन् न सहते, असावपि अयोग्यः, तस्मै अपि न वाच्यम् । भगवति अनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवे वाच्यं शास्त्रम् इति सामर्थ्यात् गम्यते । तत्र ‘मेधाविने तपस्विने वा’ (यास्क. नि. २ । १ । ६) इति अनयोः विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम् । शुश्रूषाभक्तिवियुक्ताय न तपस्विने नापि मेधाविने वाच्यम् । भगवति असूयायुक्ताय समस्तगुणवतेऽपि न वाच्यम् । गुरुशुश्रूषाभक्तिमते च वाच्यम् इत्येषः शास्त्रसम्प्रदायविधिः ॥ ६७ ॥

हिताय इति एतदेव व्याचष्ठे -

संसारेति ।

कदाचन इति सर्वैः सम्बध्यते ।

प्रतिषेधसामर्थ्यसिद्धम् अर्थं कथयति-

भगवतीति ।

अर्थसिद्धे अर्थे स्मृत्यन्तरम् अनुसृत्य मेधावित्वम् अन्तर्भावयति -

तत्रेति ।

विकल्पदर्शनात् तेषु उक्तेषु विशेषणेषु मेधावित्वमपि प्रविशति इत्यर्थः ।

विकल्पपक्षे कथम् अधिकारिप्रतिपत्तिः ? इति, तत्राह -

शुश्रूषेति ।

ताभ्यां युक्ताय भगवति असूयारहिताय तपस्विने वाच्यम् इति सम्बन्धः । तद्युक्ताय - शुश्रूषाभक्त्यनसूयासहिताय इत्यर्थः ।

तपस्वित्वं मेधावित्वं वा निरपेक्षम् अधिकारिविशेषणम् इति शङ्कां शातयति -

शुश्रुषेति ।

भगवद्विषयासूयाराहित्ये तात्पर्यं सूचयति-

भगवतीति ।

कस्मै तर्हि वाच्यम् एतत् ? इति आशङ्क्य, पूर्वोक्तसर्वगुणसम्पन्नाय, इत्याह -

गुरुशुश्रूषेति ।

अनुक्तेतरविशेषणोपलक्षणार्थम् उभयग्रहणम् । मेधाविनः तपस्वित्वं न अतीव अपेक्षते । सर्वमन्यत् बाधकाभावात् अपेक्षितमेव इति भावः ॥ ६७ ॥