हिताय इति एतदेव व्याचष्ठे -
संसारेति ।
कदाचन इति सर्वैः सम्बध्यते ।
प्रतिषेधसामर्थ्यसिद्धम् अर्थं कथयति-
भगवतीति ।
अर्थसिद्धे अर्थे स्मृत्यन्तरम् अनुसृत्य मेधावित्वम् अन्तर्भावयति -
तत्रेति ।
विकल्पदर्शनात् तेषु उक्तेषु विशेषणेषु मेधावित्वमपि प्रविशति इत्यर्थः ।
विकल्पपक्षे कथम् अधिकारिप्रतिपत्तिः ? इति, तत्राह -
शुश्रूषेति ।
ताभ्यां युक्ताय भगवति असूयारहिताय तपस्विने वाच्यम् इति सम्बन्धः । तद्युक्ताय - शुश्रूषाभक्त्यनसूयासहिताय इत्यर्थः ।
तपस्वित्वं मेधावित्वं वा निरपेक्षम् अधिकारिविशेषणम् इति शङ्कां शातयति -
शुश्रुषेति ।
भगवद्विषयासूयाराहित्ये तात्पर्यं सूचयति-
भगवतीति ।
कस्मै तर्हि वाच्यम् एतत् ? इति आशङ्क्य, पूर्वोक्तसर्वगुणसम्पन्नाय, इत्याह -
गुरुशुश्रूषेति ।
अनुक्तेतरविशेषणोपलक्षणार्थम् उभयग्रहणम् । मेधाविनः तपस्वित्वं न अतीव अपेक्षते । सर्वमन्यत् बाधकाभावात् अपेक्षितमेव इति भावः ॥ ६७ ॥