श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इमं परमं गुह्यं
मद्भक्तेष्वभिधास्यति
भक्तिं मयि परां कृत्वा
मामेवैष्यत्यसंशयः ॥ ६८ ॥
यः इमं यथोक्तं परमं परमनिःश्रेयसार्थं केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्यं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्सु अभिधास्यति वक्ष्यति, ग्रन्थतः अर्थतश्च स्थापयिष्यतीत्यर्थः, यथा त्वयि मया । भक्तेः पुनर्ग्रहणात् भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने पात्रं भवतीति गम्यते । कथम् अभिधास्यति इति, उच्यते — भक्तिं मयि परां कृत्वा ‘भगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियते’ इत्येवं कृत्वेत्यर्थः । तस्य इदं फलम् — मामेव एष्यति मुच्यते एव । असंशयः अत्र संशयः न कर्तव्यः ॥ ६८ ॥

परमत्वं ग्रन्थस्य निरतिशयपुरुषार्थसाधनत्वम् इत्याह-

परममिति ।

गोप्यत्वम् अस्य रहस्यार्थविषयत्वात् ।

यथोक्तसंवादस्य ग्रन्थतः अर्थतश्च भक्तेषु स्थापने दृष्टान्तम् आह -

यथेति ।

मयि - वासुदेवे भगवति, अनन्यभक्ते त्वयि यथा मया ग्रन्थः अर्थतः स्थापितः, तथा मद्भक्तेषु अन्येष्वपि यः ग्रन्थम् इमं स्थापयिष्यति, तस्य इदं फलम् इति उत्तरत्र सम्बन्धः ।

न अभक्ताय इति भक्तेः अधिकारिविशेषणत्वोक्तेः मद्भक्तेषु इति पुनः भक्तिग्रहणम् अनर्थकम् इति आशङ्क्य आह -

भक्तेरिति ।

शुश्रूषादिसहकारिराहित्यं केवलशब्दार्थः । यद्यपि मात्रशब्देन सूचितम् एतत् , तथापि इतरेण स्फुटीकृतम् इति अविरोधः ।

प्रश्नपूर्वकम् अभिधानप्रकारम् अभिनयति -

कथम् इत्यादिना ।

भगवति भक्तिकरणप्रकारं प्रकटयति -

भगवत इति ।

यच्छब्दापेक्षितं पूरयति -

तस्येति ।

माम् एष्यत्येव इति अन्वयं गृहीत्वा व्याचष्ठे -

मुच्यत एवेति

॥ ६८ ॥