यथोक्तस्य शास्त्रस्य योऽपि अध्येता, तेन इदं कृतं स्यात् इति सम्बन्धः, तदेव आह-
अध्येष्यते इति ।
तेन इदं कृतम् इत्यत्र इदंशब्दार्थं विशदयति -
ज्ञानेति ।
तेन अहम् इष्टः स्याम् इति सम्बन्धः ।
चतुर्विधानां यज्ञानां मध्ये ज्ञानयज्ञस्य ‘श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः’ (भ. गी. ४-३३) इति विशिष्टत्वाभिधानात् , तेन अहम् इष्टः स्याम् इति अध्ययनस्य स्तुतिः अभिमता इत्याह -
विधीति ।
पक्षान्तरम् आह -
फलेति ।
फलविधिमेव प्रकटयति -
देवतादीति ।
यद्धि ज्ञानयज्ञस्य फलं कैवल्यं तेन तुल्यम् अस्य अध्येतुः सम्पद्यते । तच्च देवताद्यात्मत्वम् इत्यर्थः ।
कथम् अध्ययनादेव सर्वात्मत्वं फलं लभ्यते ? ‘तस्मात्सर्वमभवत् ‘ इति श्रुतेः । तत्राह -
तेनेति ।
तेन अध्येत्रा ज्ञानयज्ञतुल्येन अध्ययनेन भगवान् इष्टः । तथा च तज्ज्ञानात् उक्तं फलम् अविरुद्धम् इत्यर्थः
॥ ७० ॥