श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सञ्जय उवाच —
इत्यहं वासुदेवस्य पार्थस्य महात्मनः
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥
परिसमाप्तः शास्त्रार्थः । अथ इदानीं कथासम्बन्धप्रदर्शनार्थं सञ्जयः उवाच —

शास्त्रीार्थे समाप्ते सति, अस्याम् अवस्थायां सञ्जयवचनं कुत्र उपयुक्तम् इति तत् आह -

परिसमाप्त इति ।