श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
व्यासप्रसादाच्छ्रुतवानिमं गुह्यतमं परम्
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥
व्यासप्रसादात् ततः दिव्यचक्षुर्लाभात् श्रुतवान् इमं संवादं गुह्यतमं परं योगम् , योगार्थत्वात् ग्रन्थोऽपि योगः, संवादम् इमं योगमेव वा योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् , परम्परया ॥ ७५ ॥

एतत्पदं संवादपरत्वात् पुल्लिङ्गत्वेन नेतव्यम् इत्याह -

एतमिति ।

परमपुरुषार्थोपयिकत्वात् परत्वम् । परं गुह्यम् अतिशयेन गुह्यं रहस्यम् इति वा । योगः - ज्ञानं कर्म च, तदर्थत्वात् अयं संवादः योगः उक्तः ।

अथवा चित्तवृत्तिनिरोधस्य योगस्य अङ्गत्वात् अयं संवादः योगः इत्याह -

संवादमिति ।

योगानाम् ईश्वरः योगेश्वरः, तदनुग्रहहेतुत्वात् योगतत्फलयोः, ततः साक्षात् - अव्यवधानेन श्रुतवान् , न परम्परया, इत्याह -

योगेश्वरादिति ।

स्वयं - स्वेन परमेश्वरेण अतिरस्कृतानैश्वर्यरूपेण, कथयतः - व्याचक्षाणात् इत्यर्थः ॥ ७५ ॥