श्रीमद्भगवद्गीताभाष्यम्
अष्टादशोऽध्यायः
आनन्दगिरिटीका (गीताभाष्य)
 
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥
यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः, तत्प्रभवत्वात् सर्वयोगबीजस्य, कृष्णः, यत्र पार्थः यस्मिन् पक्षे धनुर्धरः गाण्डीवधन्वा, तत्र श्रीः तस्मिन् पाण्डवानां पक्षे श्रीः विजयः, तत्रैव भूतिः श्रियो विशेषः विस्तारः भूतिः, ध्रुवा अव्यभिचारिणी नीतिः नयः, इत्येवं मतिः मम इति ॥ ७८ ॥

कथं सर्वेषां योगानाम् ईश्वरः भगवान् ? इति तत्र आह-

तत्प्रभवत्वादिति ।

राज्ञः धृतराष्ट्रस्य स्वपुत्रेषु विजयाशां शिथिलीकृत्य, पाण्डवेषु जयप्राप्तिम् ऐकान्तिकीम् उपसंहरति -

इत्येवमिति ।

उपायोपेयभावेन निष्ठाद्वयस्य प्रतिष्ठापितत्वात् , कर्मनिष्ठा परम्परया ज्ञाननिष्ठाहेतुः, ज्ञाननिष्ठा तु साक्षादेव मोक्षहेतुः इति शास्त्रार्थम् उपसंहर्तुम् इति इत्युक्तम्

॥ ७८ ॥

काण्डत्रयात्मकं शास्त्रं पदवाक्यार्थगोचरम् ।
आदिमध्यान्तषट्केषु व्याख्याया गोचरीकृतम् ॥ १ ॥

सङ्क्षेपविस्तराभ्यां यो लक्षणैरुपपादितः ।
सोऽर्थोन्तिमेन सङ्क्षिप्य लक्षणेन विवक्षितः ॥ २ ॥

गीताशास्त्रमहार्णवोत्थममृतं वैकुण्ठकण्ठोद्भवं
श्रीकण्ठापरनामवन्मुनिकृतं निष्ठाद्वयद्योतितम् ।

निष्ठा यत्र मतिप्रसादजननी साक्षात्कृतं कुर्वती
मोक्षे पर्यवसास्यति प्रतिदिनं सेवध्वमेतदुबुधाः ॥ ३ ॥

प्राचामाचार्यपादानां पदवीमनुगच्छता ।
गीताभाष्ये कृता टीका टीकतां पुरुषोत्तमम् ॥ ४ ॥

इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवदुगीताशाङ्करभाष्यव्याख्याने अष्टादशोऽध्यायः ॥ १८ ॥