यथाश्रुतमिति ।
येन यादृशं प्रतिषिद्धं विहितं वा देवतादिज्ञानमनुष्ठितं स तदनुरूपामेव योनिमाप्नोतीत्यर्थः ।
आत्महन्तृत्वस्योदरभेदिनि प्रसिद्धेः कथमविद्वांस आत्महन इत्याह -
कथं त इति ।
उदरभेदिनोऽध्यात्माधिकारे प्रसङ्गाभावादशुद्धत्वाध्यासेन तिरस्कार एवाऽऽत्महन्तृत्वमित्याह -
अविद्यादोषेणेति ।
यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोऽशस्त्रवध उच्यते तद्वदात्मनि पापित्वाद्यध्यासोऽपि हिंसैवेत्यर्थः ।
अजरामरत्वादिलक्षणोऽहमिति सम्वेदनमभिधानं च यत्कार्य तद्धतस्येव न दृश्यत इति हननमुपचर्यत इत्याह -
विद्यमानस्येति ।
अस्याऽऽत्मघातस्य प्रायश्चितविधानादर्शनात्संसरणमेव फलमित्याह -
तेन हीति ॥ ३ ॥