येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गणेः ॥ १ ॥
ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुर्भगवन्भाष्यकारस्तेषां कर्मशेषत्वशङ्कां तावद्व्युदस्यति । तथाहि कर्मजडाः केचन मन्यन्ते स्म । ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिवेत्वादिमन्त्रवत् । अतः पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह -
ईशा वास्यमित्यादय इति ।
कर्मस्वविनियुक्ता इति ।
इषे त्वेति शाखां छिनत्तीत्यादिवद्विनयोजकप्रमाणादर्शनात्प्राकरणान्तरत्वाच्चेत्यर्थः ।
श्रौतविनियोगाभावेऽपि ‘बर्हिर्देवसदनं दामी’ त्यस्य बर्हिर्लवनप्रकाशनसामर्थ्याद्वर्हिर्लवने यथा विनियोगस्तथा कर्मशेषात्मप्रकाशनसामर्थ्येन कर्मस्वेषां विनियोग इत्यपि नाऽऽशङ्कनीयमित्याह -
तेषामिति ।
शुद्धत्वादिविशेषणस्याऽऽत्मनः कर्मशेषत्वे प्रमाणाभावात्तद्याथात्म्यं न केवलं कर्मानुपयोगि किन्तु कर्मणा विरुध्यते चेत्याह -
याथात्म्यं चेति ।
शुद्धोऽहं स्वभावतो नाऽऽगन्तुकेनापि पाप्मना विद्धः सर्वत्रैकोऽशरीर आकाशोपम इति जानन्न कटाक्षेणापि कर्म वीक्षते । किन्त्वापातप्रतिपत्तिरप्येतादृशी निरुणद्ध्येव कर्मप्रवृत्तिमित्यर्थः । किञ्च यः कर्मशेषः स उत्पाद्यो दृष्टो यथा पुरोडाशादिः । विकार्यः सोमादिः । आप्यो मन्त्रादिः । संस्कार्यो व्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथात्म्यस्य कर्मशेषत्वमपि व्यावर्तयति ।
तथाऽऽत्याथात्म्यं कर्तृ भोक्तृ च न भवति । येन ममेदं समीहीतसाधनं ततो मया कर्तव्यमित्यहङ्कारान्वयपुरः सरः कर्त्रन्वयः स्यादित्याह -
नह्येवमिति ।
ननूपनिषदां जपोपयोगित्वादन्यस्य च प्रमाणस्यादर्शनान्नास्त्येवैतादृशमात्मयाथात्म्यं तत्राऽऽह -
सर्वासामिति ।
“यत्परः शब्दः स शब्दार्थः” इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न जपोपयोगित्वमुपनिषदांशक्यं वक्तुम् । तथाहि - ईशा वास्यमित्युपक्रम्य स पर्यगाच्छुमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यभ्यासदर्शनान्नैनद्देवा आप्नुवन्नित्यपूर्वतासङ्कीतंनात् को मोहः कः शोक एकत्वमनुपश्यत इति फलवत्तासङ्कीर्तनात्कुर्वन्नेवेहेति जिजीविषोर्भेददर्शिनः कर्मकरणानुवादेनासुर्या नाम त इति निन्दयेकात्म्यदर्शनस्य स्सुतत्वात्तस्मिन्नपो मातरिश्वा दधातीति युक्त्यभिधानाच्चास्यास्तावदुपनिषद ऐकात्म्यतात्पर्यं दृश्यते । एवमन्यासामप्युपनिषदामुपक्रमोपसंहारैकरूप्याभ्यासापूर्वताफलवत्तार्यवादयुक्त्युपपादनानि षट् तात्पर्यलिङ्गानि विकल्पेन समुच्चयेन चास्माभिस्तत्त्वालोके दर्शितानीति नेह प्रतन्यन्ते ।
किञ्च प्रत्ययसम्वादोऽपि बलवत्त्वे कारणं प्रसिद्धम् । विद्यते चोपनिषदर्थे गीतादिसम्वादस्तस्मादुपनिषत्पदसमन्वयेनावगम्यमानमैकात्म्यं न प्रमाणान्तरानुपलम्भविरोधेनापलपनीयम् । यथेन्द्रियान्तरेणानवगम्यमानमपि रूपं चक्षुपाऽवगम्यमानं नापह्नूयते तथैकात्म्यमपि नापह्नवार्हमित्याह -
गीतानामिति ।
“समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥” (भ. गी. १३ । २७) इत्यादिगीतानाम् । ‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥”(ब्रह्मबिन्दूपनिषत् १२) इत्यादिमोक्षशास्त्राणां चैकात्म्यपरत्वादित्यर्थः ।
यद्येतादृशमात्मतत्त्वं तर्हि निरधिकारित्वात्कर्मकाण्डमुच्छिद्येतेत्यपि नाऽऽशङ्कनीयमित्याह -
तस्मादिति ।
औपनिश्चयवत इष्यत एव श्येनादिविध्यप्रमाण्यम् । यथा च तीव्रक्रोधाक्रान्तस्वान्तं प्रत्येव श्येनादिविधिप्रामाण्यं तथा मिथ्यात्मदर्शिनं प्रत्येव कर्मविधिप्रामाण्यमित्यर्थः ।
अत्र जैमिनिप्रभृतीनां सम्मनिमाह -
यो हीत्यादिना ।
अर्थित्वादियुक्तस्य कर्मण्यधिकारः षष्ठेऽध्याये प्रतिष्ठापितः । अर्थित्वादि च मिथ्याज्ञाननिदानम् । न हि नभोवन्निष्क्रियस्य स्वत एव दुःखासंसर्गिणः परमानन्दस्वभावस्य सुखं मे स्याद्दुःखं मे मा भूदित्यर्थित्वं शरीरेन्द्रियसामर्थ्येन च समर्थोऽहमित्यभिमानित्वं मिथ्याज्ञानं विना सम्भवतीत्यर्थः ।
यस्मादात्मयाथात्म्यप्रकाशका मन्त्रा न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्तस्मात्प्रयोजनादिमत्त्वमपि तेषां सिद्धमित्याह -
तस्मादेत इति ।