शान्तसङ्कल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभिमृत्यो ।
त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १० ॥
नचिकेतास्त्वाह — यदि दित्सुर्वरान् , शान्तसङ्कल्पः उपशान्तः सङ्कल्पो यस्य मां प्रति ‘यमं प्राप्य किं नु करिष्यति मम पुत्रः’ इति, सः शान्तसङ्कल्पः सुमनाः प्रसन्नचित्तश्च यथा स्यात् वीतमन्युः विगतरोषश्च गौतमः मम पिता मा अभि मां प्रति हे मृत्यो ; किञ्च, त्वत्प्रसृष्टं त्वया विनिर्मुक्तं प्रेषितं गृहं प्रति मा माम् अभिवदेत् प्रतीतः लब्धस्मृतिः, ‘स एवायं पुत्रो ममागतः’ इत्येवं प्रत्यभिजानन्नित्यर्थः । एतत्प्रयोजनं त्रयाणां वराणां प्रथमम् आद्यं वरं वृणे प्रार्थये यत्पितुः परितोषणम् ॥