पितापुत्रस्नेहादिस्वर्गलोकावसानं यद्वरद्वयसूचितं संसाररूपं तदेव कर्मकाण्डप्रतिपाद्यमात्मन्यारेपितं तन्निवर्तकं चाऽऽत्मज्ञानमित्यध्यारोपापवादभावेन पूर्वोत्तरग्रन्थयोः सम्बन्धमाह -
एतावद्धीति ।
प्रथमवल्लीसमाप्तिपर्यन्ताख्यायिकाया अवान्तरसम्बन्धमाह -
तमेतमर्थमिति ।
देहव्यतिरिक्तात्मास्तित्वे वादिविप्रतिपत्तेः संशयश्चेत्तर्हि प्रत्यक्षादिना स्वस्यैव निर्णयज्ञानसम्भवात्तन्निर्णयस्य निष्प्रयोजनत्वाच्च न तदर्थः प्रश्नः कर्तव्य इत्याशङ्क्याह -
अतश्चास्माकमिति ।
प्रत्यक्षेण स्थाणौ निर्णीते पुरुषो न वेति सन्देहादर्शनाद्व्यतिरिक्तात्मास्तित्वे च सन्देहदर्शनान्न प्रत्यक्षेण निर्णयः परलोकसम्बन्ध्यात्मना च कस्यचिल्लिङ्गस्याविनाभावादर्शनान्नानुमानेनापि निर्णय इत्यर्थः ॥ २० - २१ - २२ ॥