यस्त्वनेवम्भूत उक्तसाधनसम्पन्नो न भवति स कथं वेदेति सम्बन्धः ।
अशनत्वेऽप्यपर्याप्त इति ।
अन्नत्वेऽप्यसमर्थः शाकस्थानीय इत्यर्थः । यत्र स्वे महिम्नि स विश्वोपसंहर्ता वर्तते तथाभूतं तं को वेेेदेति सम्बन्धः ॥ २५ ॥