कठोपनिषद्भाष्यम्
द्वितीयोऽध्यायःपञ्चमी वल्ली
आनन्दगिरिटीका (काठक)
 
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥
स तु नैकपुरवर्त्येवात्मा किं तर्हि सर्वपुरवर्ती । कथम् ? हंसः हन्ति गच्छतीति । शुचिषत् शुचौ दिवि आदित्यात्मना सीदतीति । वसुः वासयति सर्वानिति । वाय्वात्मना अन्तरिक्षे सीदतीति अन्तरिक्षसत् । होता अग्निः, ‘अग्निर्वै होता’ इति श्रुतेः । वेद्यां पृथिव्यां सीदतीति वेदिषत् , ‘इयं वेदिः परोऽन्तः पृथिव्याः’ (ऋ. मं. १ । २२ । १६४ । ३५) इति मन्त्रवर्णात् । अतिथिः सोमः सन् दुरोणे कलशे सीदतीति दुरोणसत् । ब्राह्मणोऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति दुरोणसत् । नृषत् नृषु मनुष्येषु सीदतीति नृषत् । वरसत् वरेषु देवेषु सीदतीति वरसत् । ऋतसत् ऋतं सत्यं यज्ञो वा, तस्मिन् सीदतीति ऋतसत् । व्योमसत् व्योम्नि आकाशे सीदतीति व्योमसत् । अब्जाः अप्सु शङ्खशुक्तिमकरादिरुपेण जायत इति अब्जाः । गोजाः गवि पृथिव्यां व्रीहियवादिरूपेण जायत इति गोजाः । ऋतजाः यज्ञाङ्गरूपेण जायत इति ऋतजाः । अद्रिजाः पर्वतेभ्यो नद्यादिरूपेण जायत इति अद्रिजाः । सर्वात्मापि सन् ऋतम् अवितथस्वभाव एव । बृहत् महान् , सर्वकारणत्वात् । यदाप्यादित्य एव मन्त्रेणोच्यते तदाप्यात्मस्वरूपत्वमादित्यस्याङ्गीकृतमिति ब्रह्मणि व्याख्यानेऽप्यविरोधः । सर्वथाप्येक एवात्मा जगतः, नात्मभेद इति मन्त्रार्थः ॥

या यज्ञे प्रसिद्धा वेदिः पृथिव्याः परोऽन्तः, परस्वभाव इति वेद्याः पृथिवीस्वभावत्वसङ्कीर्तनात्पृथिवी वेदिशब्दवाच्या भवतीत्यर्थः । असौ वा आदित्यो हंसः शुचिषदिति ब्राह्मणेनाऽऽदित्यो मन्त्रार्थतया व्याख्यातः कथं तद्विरुद्धमिदं व्याख्यातमित्याशङ्क्याऽऽह -

यदाऽप्यादित्य एवेति ।

सूर्य आत्मा जगतस्तस्थुषश्चेति मन्त्रान्मण्डलोपलक्षितस्य चिद्धातोरिष्यत एव सर्वात्मत्वमित्यर्थः ॥ २ ॥